वैशम्पायन उवाच || 001
एतच्छ्रुत्वा तु कौन्तेयः सर्वान्भ्रातॄनुपह्वरे | 001a
आहूय भरतश्रेष्ठ इदं वचनमब्रवीत् || 001c
धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम | 002a
ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम् || 002c
दुर्योधनः किलापृच्छदापगेयं महाव्रतम् | 003a
केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो || 003c
मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः | 004a
तावता चापि कालेन द्रोणोऽपि प्रत्यजानत || 004c
गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम् | 005a
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित् || 005c
तथा दिव्यास्त्रवित्कर्णः सम्पृष्टः कुरुसंसदि | 006a
पञ्चभिर्दिवसैर्हन्तुं स सैन्यं प्रतिजज्ञिवान् || 006c
तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः | 007a
कालेन कियता शत्रून्क्षपयेरिति संयुगे || 007c
एवमुक्तो गुडाकेशः पार्थिवेन धनञ्जयः | 008a
वासुदेवमवेक्ष्येदं वचनं प्रत्यभाषत || 008c
सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः | 009a
असंशयं महाराज हन्युरेव बलं तव || 009c
अपैतु ते मनस्तापो यथासत्यं ब्रवीम्यहम् | 010a
हन्यामेकरथेनाहं वासुदेवसहायवान् || 010c
सामरानपि लोकांस्त्रीन्सहस्थावरजङ्गमान् | 011a
भूतं भव्यं भविष्यच्च निमेषादिति मे मतिः || 011c
यत्तद्घोरं पशुपतिः प्रादादस्त्रं महन्मम | 012a
कैराते द्वन्द्वयुद्धे वै तदिदं मयि वर्तते || 012c
यद्युगान्ते पशुपतिः सर्वभूतानि संहरन् | 013a
प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते || 013c
तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः | 014a
न च द्रोणसुतो राजन्कुत एव तु सूतजः || 014c
न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम् | 015a
आर्जवेनैव युद्धेन विजेष्यामो वयं परान् || 015c
तथेमे पुरुषव्याघ्राः सहायास्तव पार्थिव | 016a
सर्वे दिव्यास्त्रविदुषः सर्वे युद्धाभिनन्दिनः || 016c
वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः | 017a
निहन्युः समरे सेनां देवानामपि पाण्डव || 017c
शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः | 018a
भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ || 018c
विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि | 019a
स्वयं चापि समर्थोऽसि त्रैलोक्योत्सादने अपि || 019c
क्रोधाद्यं पुरुषं पश्येस्त्वं वासवसमद्युते | 020a
क्षिप्रं न स भवेद्व्यक्तमिति त्वां वेद्मि कौरव || 020c