सञ्जय उवाच || 001
प्रभातायां तु शर्वर्यां पुनरेव सुतस्तव | 001a
मध्ये सर्वस्य सैन्यस्य पितामहमपृच्छत || 001c
पाण्डवेयस्य गाङ्गेय यदेतत्सैन्यमुत्तमम् | 002a
प्रभूतनरनागाश्वं महारथसमाकुलम् || 002c
भीमार्जुनप्रभृतिभिर्महेष्वासैर्महाबलैः | 003a
लोकपालोपमैर्गुप्तं धृष्टद्युम्नपुरोगमैः || 003c
अप्रधृष्यमनावार्यमुद्वृत्तमिव सागरम् | 004a
सेनासागरमक्षोभ्यमपि देवैर्महाहवे || 004c
केन कालेन गाङ्गेय क्षपयेथा महाद्युते | 005a
आचार्यो वा महेष्वासः कृपो वा सुमहाबलः || 005c
कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः | 006a
दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम || 006c
एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे | 007a
हृदि नित्यं महाबाहो वक्तुमर्हसि तन्मम || 007c
भीष्म उवाच || 008
अनुरूपं कुरुश्रेष्ठ त्वय्येतत्पृथिवीपते | 008a
बलाबलममित्राणां स्वेषां च यदि पृच्छसि || 008c
शृणु राजन्मम रणे या शक्तिः परमा भवेत् | 009a
अस्त्रवीर्यं रणे यच्च भुजयोश्च महाभुज || 009c
आर्जवेनैव युद्धेन योद्धव्य इतरो जनः | 010a
मायायुद्धेन मायावी इत्येतद्धर्मनिश्चयः || 010c
हन्यामहं महाबाहो पाण्डवानामनीकिनीम् | 011a
दिवसे दिवसे कृत्वा भागं प्रागाह्निकं मम || 011c
योधानां दशसाहस्रं कृत्वा भागं महाद्युते | 012a
सहस्रं रथिनामेकमेष भागो मतो मम || 012c
अनेनाहं विधानेन सन्नद्धः सततोत्थितः | 013a
क्षपयेयं महत्सैन्यं कालेनानेन भारत || 013c
यदि त्वस्त्राणि मुञ्चेयं महान्ति समरे स्थितः | 014a
शतसाहस्रघातीनि हन्यां मासेन भारत || 014c
सञ्जय उवाच || 015
श्रुत्वा भीष्मस्य तद्वाक्यं राजा दुर्योधनस्तदा | 015a
पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम् || 015c
आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान् | 016a
निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव || 016c
स्थविरोऽस्मि कुरुश्रेष्ठ मन्दप्राणविचेष्टितः | 017a
अस्त्राग्निना निर्दहेयं पाण्डवानामनीकिनीम् || 017c
यथा भीष्मः शान्तनवो मासेनेति मतिर्मम | 018a
एषा मे परमा शक्तिरेतन्मे परमं बलम् || 018c
द्वाभ्यामेव तु मासाभ्यां कृपः शारद्वतोऽब्रवीत् | 019a
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम् | 019c
कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित् || 019e
तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः | 020a
जहास सस्वनं हासं वाक्यं चेदमुवाच ह || 020c
न हि तावद्रणे पार्थं बाणखड्गधनुर्धरम् | 021a
वासुदेवसमायुक्तं रथेनोद्यन्तमच्युतम् || 021c
समागच्छसि राधेय तेनैवमभिमन्यसे | 022a
शक्यमेवं च भूयश्च त्वया वक्तुं यथेष्टतः || 022c