भीष्म उवाच || 001
शिखण्डिवाक्यं श्रुत्वाथ स यक्षो भरतर्षभ | 001a
प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः | 001c
भवितव्यं तथा तद्धि मम दुःखाय कौरव || 001e
भद्रे कामं करिष्यामि समयं तु निबोध मे | 002a
किञ्चित्कालान्तरं दास्ये पुंलिङ्गं स्वमिदं तव | 002c
आगन्तव्यं त्वया काले सत्यमेतद्ब्रवीमि ते || 002e
प्रभुः सङ्कल्पसिद्धोऽस्मि कामरूपी विहङ्गमः | 003a
मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलान् || 003c
स्त्रीलिङ्गं धारयिष्यामि त्वदीयं पार्थिवात्मजे | 004a
सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव || 004c
शिखण्ड्युवाच || 005
प्रतिदास्यामि भगवल्ँलिङ्गं पुनरिदं तव | 005a
किञ्चित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर || 005c
प्रतिप्रयाते दाशार्णे पार्थिवे हेमवर्मणि | 006a
कन्यैवाहं भविष्यामि पुरुषस्त्वं भविष्यसि || 006c
भीष्म उवाच || 007
इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप | 007a
अन्योन्यस्यानभिद्रोहे तौ सङ्क्रामयतां ततः || 007c
स्त्रीलिङ्गं धारयामास स्थूणो यक्षो नराधिप | 008a
यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत || 008c
ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव | 009a
विवेश नगरं हृष्टः पितरं च समासदत् | 009c
यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य च || 009e
द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम् | 010a
सभार्यस्तच्च सस्मार महेश्वरवचस्तदा || 010c
ततः सम्प्रेषयामास दशार्णाधिपतेर्नृप | 011a
पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति || 011c
अथ दाशार्णको राजा सहसाभ्यागमत्तदा | 012a
पाञ्चालराजं द्रुपदं दुःखामर्षसमन्वितः || 012c
ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्तदा | 013a
प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम् || 013c
ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम् | 014a
यद्वै कन्यां स्वकन्यार्थे वृतवानसि दुर्मते | 014c
फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः || 014e
एवमुक्तस्तु तेनासौ ब्राह्मणो राजसत्तम | 015a
दूतः प्रयातो नगरं दाशार्णनृपचोदितः || 015c
तत आसादयामास पुरोधा द्रुपदं पुरे | 016a
तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम् | 016c
प्रापयामास राजेन्द्र सह तेन शिखण्डिना || 016e
तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह | 017a
यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा || 017c
यत्तेऽहमधमाचार दुहित्रर्थेऽस्मि वञ्चितः | 018a
तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते || 018c
देहि युद्धं नरपते ममाद्य रणमूर्धनि | 019a
उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम् || 019c
तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः | 020a
दशार्णपतिदूतेन मन्त्रिमध्ये पुरोधसा || 020c
अब्रवीद्भरतश्रेष्ठ द्रुपदः प्रणयानतः | 021a
यदाह मां भवान्ब्रह्मन्सम्बन्धिवचनाद्वचः | 021c
तस्योत्तरं प्रतिवचो दूत एव वदिष्यति || 021e
ततः सम्प्रेषयामास द्रुपदोऽपि महात्मने | 022a
हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम् || 022c
समागम्य तु राज्ञा स दशार्णपतिना तदा | 023a
तद्वाक्यमाददे राजन्यदुक्तं द्रुपदेन ह || 023c
आगमः क्रियतां व्यक्तं कुमारो वै सुतो मम | 024a
मिथ्यैतदुक्तं केनापि तन्न श्रद्धेयमित्युत || 024c
ततः स राजा द्रुपदस्य श्रुत्वा विमर्शयुक्तो युवतीर्वरिष्ठाः | 025a
सम्प्रेषयामास सुचारुरूपाः शिखण्डिनं स्त्री पुमान्वेति वेत्तुम् || 025c
ताः प्रेषितास्तत्त्वभावं विदित्वा प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम् | 026a
शिखण्डिनं पुरुषं कौरवेन्द्र दशार्णराजाय महानुभावम् || 026c
ततः कृत्वा तु राजा स आगमं प्रीतिमानथ | 027a
सम्बन्धिना समागम्य हृष्टो वासमुवास ह || 027c
शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः | 028a
हस्तिनोऽश्वांश्च गाश्चैव दास्यो बहुशतास्तथा || 028c
पूजितश्च प्रतिययौ निवर्त्य तनयां किल || 028e
विनीतकिल्बिषे प्रीते हेमवर्मणि पार्थिवे | 029a
प्रतियाते तु दाशार्णे हृष्टरूपा शिखण्डिनी || 029c
कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः | 030a
लोकानुयात्रां कुर्वाणः स्थूणस्यागान्निवेशनम् || 030c
स तद्गृहस्योपरि वर्तमान आलोकयामास धनाधिगोप्ता | 031a
स्थूणस्य यक्षस्य निशाम्य वेश्म स्वलङ्कृतं माल्यगुणैर्विचित्रम् || 031c
लाजैश्च गन्धैश्च तथा वितानैरभ्यर्चितं धूपनधूपितं च | 032a
ध्वजैः पताकाभिरलङ्कृतं च भक्ष्यान्नपेयामिषदत्तहोमम् || 032c
तत्स्थानं तस्य दृष्ट्वा तु सर्वतः समलङ्कृतम् | 033a
अथाब्रवीद्यक्षपतिस्तान्यक्षाननुगांस्तदा || 033c
स्वलङ्कृतमिदं वेश्म स्थूणस्यामितविक्रमाः | 034a
नोपसर्पति मां चापि कस्मादद्य सुमन्दधीः || 034c
यस्माज्जानन्सुमन्दात्मा मामसौ नोपसर्पति | 035a
तस्मात्तस्मै महादण्डो धार्यः स्यादिति मे मतिः || 035c
यक्षा ऊचुः || 036
द्रुपदस्य सुता राजन्राज्ञो जाता शिखण्डिनी | 036a
तस्यै निमित्ते कस्मिंश्चित्प्रादात्पुरुषलक्षणम् || 036c
अग्रहील्लक्षणं स्त्रीणां स्त्रीभूतस्तिष्ठते गृहे | 037a
नोपसर्पति तेनासौ सव्रीडः स्त्रीस्वरूपवान् || 037c
एतस्मात्कारणाद्राजन्स्थूणो न त्वाद्य पश्यति | 038a
श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम् || 038c
भीष्म उवाच || 039
आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत् | 039a
कर्तास्मि निग्रहं तस्येत्युवाच स पुनः पुनः || 039c
सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते | 040a
स्त्रीस्वरूपो महाराज तस्थौ व्रीडासमन्वितः || 040c
तं शशाप सुसङ्क्रुद्धो धनदः कुरुनन्दन | 041a
एवमेव भवत्वस्य स्त्रीत्वं पापस्य गुह्यकाः || 041c
ततोऽब्रवीद्यक्षपतिर्महात्मा यस्माददास्त्ववमन्येह यक्षान् | 042a
शिखण्डिने लक्षणं पापबुद्धे स्त्रीलक्षणं चाग्रहीः पापकर्मन् || 042c
अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत्कृतं त्वया | 043a
तस्मादद्य प्रभृत्येव त्वं स्त्री स पुरुषस्तथा || 043c
ततः प्रसादयामासुर्यक्षा वैश्रवणं किल | 044a
स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः || 044c
ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः | 045a
सर्वान्यक्षगणांस्तात शापस्यान्तचिकीर्षया || 045c
हते शिखण्डिनि रणे स्वरूपं प्रतिपत्स्यते | 046a
स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः || 046c
इत्युक्त्वा भगवान्देवो यक्षराक्षसपूजितः | 047a
प्रययौ सह तैः सर्वैर्निमेषान्तरचारिभिः || 047c
स्थूणस्तु शापं सम्प्राप्य तत्रैव न्यवसत्तदा | 048a
समये चागमत्तं वै शिखण्डी स क्षपाचरम् || 048c
सोऽभिगम्याब्रवीद्वाक्यं प्राप्तोऽस्मि भगवन्निति | 049a
तमब्रवीत्ततः स्थूणः प्रीतोऽस्मीति पुनः पुनः || 049c
आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम् | 050a
सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने || 050c
यक्ष उवाच || 051
शप्तो वैश्रवणेनास्मि त्वत्कृते पार्थिवात्मज | 051a
गच्छेदानीं यथाकामं चर लोकान्यथासुखम् || 051c
दिष्टमेतत्पुरा मन्ये न शक्यमतिवर्तितुम् | 052a
गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम् || 052c
भीष्म उवाच || 053
एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत | 053a
प्रत्याजगाम नगरं हर्षेण महतान्वितः || 053c
पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः | 054a
द्विजातीन्देवताश्चापि चैत्यानथ चतुष्पथान् || 054c
द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना | 055a
मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः || 055c
शिष्यार्थं प्रददौ चापि द्रोणाय कुरुपुङ्गव | 056a
शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा || 056c
प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः | 057a
शिखण्डी सह युष्माभिर्धृष्टद्युम्नश्च पार्षतः || 057c
मम त्वेतच्चरास्तात यथावत्प्रत्यवेदयन् | 058a
जडान्धबधिराकारा ये युक्ता द्रुपदे मया || 058c
एवमेष महाराज स्त्रीपुमान्द्रुपदात्मजः | 059a
सम्भूतः कौरवश्रेष्ठ शिखण्डी रथसत्तमः || 059c
ज्येष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता | 060a
द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ || 060c
नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम् | 061a
मुहूर्तमपि पश्येयं प्रहरेयं न चाप्युत || 061c
व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम् | 062a
स्त्रियां स्त्रीपूर्वके चापि स्त्रीनाम्नि स्त्रीस्वरूपिणि || 062c
न मुञ्चेयमहं बाणानिति कौरवनन्दन | 063a
न हन्यामहमेतेन कारणेन शिखण्डिनम् || 063c
एतत्तत्त्वमहं वेद जन्म तात शिखण्डिनः | 064a
ततो नैनं हनिष्यामि समरेष्वाततायिनम् || 064c
यदि भीष्मः स्त्रियं हन्याद्धन्यादात्मानमप्युत | 065a
नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम् || 065c
सञ्जय उवाच || 066
एतच्छ्रुत्वा तु कौरव्यो राजा दुर्योधनस्तदा | 066a
मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत || 066c