भीष्म उवाच || 001
ततः शिखण्डिनो माता यथातत्त्वं नराधिप | 001a
आचचक्षे महाबाहो भर्त्रे कन्यां शिखण्डिनीम् || 001c
अपुत्रया मया राजन्सपत्नीनां भयादिदम् | 002a
कन्या शिखण्डिनी जाता पुरुषो वै निवेदितः || 002c
त्वया चैव नरश्रेष्ठ तन्मे प्रीत्यानुमोदितम् | 003a
पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ | 003c
भार्या चोढा त्वया राजन्दशार्णाधिपतेः सुता || 003e
त्वया च प्रागभिहितं देववाक्यार्थदर्शनात् | 004a
कन्या भूत्वा पुमान्भावीत्येवं चैतदुपेक्षितम् || 004c
एतच्छ्रुत्वा द्रुपदो यज्ञसेनः सर्वं तत्त्वं मन्त्रविद्भ्यो निवेद्य | 005a
मन्त्रं राजा मन्त्रयामास राजन्यद्यद्युक्तं रक्षणे वै प्रजानाम् || 005c
सम्बन्धकं चैव समर्थ्य तस्मिन्दाशार्णके वै नृपतौ नरेन्द्र | 006a
स्वयं कृत्वा विप्रलम्भं यथावन्मन्त्रैकाग्रो निश्चयं वै जगाम || 006c
स्वभावगुप्तं नगरमापत्काले तु भारत | 007a
गोपयामास राजेन्द्र सर्वतः समलङ्कृतम् || 007c
आर्तिं च परमां राजा जगाम सह भार्यया | 008a
दशार्णपतिना सार्धं विरोधे भरतर्षभ || 008c
कथं सम्बन्धिना सार्धं न मे स्याद्विग्रहो महान् | 009a
इति सञ्चिन्त्य मनसा दैवतान्यर्चयत्तदा || 009c
तं तु दृष्ट्वा तदा राजन्देवी देवपरं तथा | 010a
अर्चां प्रयुञ्जानमथो भार्या वचनमब्रवीत् || 010c
देवानां प्रतिपत्तिश्च सत्या साधुमता सदा | 011a
सा तु दुःखार्णवं प्राप्य नः स्यादर्चयतां भृशम् || 011c
दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणैः | 012a
अग्नयश्चापि हूयन्तां दाशार्णप्रतिषेधने || 012c
अयुद्धेन निवृत्तिं च मनसा चिन्तयाभिभो | 013a
देवतानां प्रसादेन सर्वमेतद्भविष्यति || 013c
मन्त्रिभिर्मन्त्रितं सार्धं त्वया यत्पृथुलोचन | 014a
पुरस्यास्याविनाशाय तच्च राजंस्तथा कुरु || 014c
दैवं हि मानुषोपेतं भृशं सिध्यति पार्थिव | 015a
परस्परविरोधात्तु नानयोः सिद्धिरस्ति वै || 015c
तस्माद्विधाय नगरे विधानं सचिवैः सह | 016a
अर्चयस्व यथाकामं दैवतानि विशां पते || 016c
एवं सम्भाषमाणौ तौ दृष्ट्वा शोकपरायणौ | 017a
शिखण्डिनी तदा कन्या व्रीडितेव मनस्विनी || 017c
ततः सा चिन्तयामास मत्कृते दुःखितावुभौ | 018a
इमाविति ततश्चक्रे मतिं प्राणविनाशने || 018c
एवं सा निश्चयं कृत्वा भृशं शोकपरायणा | 019a
जगाम भवनं त्यक्त्वा गहनं निर्जनं वनम् || 019c
यक्षेणर्द्धिमता राजन्स्थूणाकर्णेन पालितम् | 020a
तद्भयादेव च जनो विसर्जयति तद्वनम् || 020c
तत्र स्थूणस्य भवनं सुधामृत्तिकलेपनम् | 021a
लाजोल्लापिकधूमाढ्यमुच्चप्राकारतोरणम् || 021c
तत्प्रविश्य शिखण्डी सा द्रुपदस्यात्मजा नृप | 022a
अनश्नती बहुतिथं शरीरमुपशोषयत् || 022c
दर्शयामास तां यक्षः स्थूणो मध्वक्षसंयुतः | 023a
किमर्थोऽयं तवारम्भः करिष्ये ब्रूहि माचिरम् || 023c
अशक्यमिति सा यक्षं पुनः पुनरुवाच ह | 024a
करिष्यामीति चैनां स प्रत्युवाचाथ गुह्यकः || 024c
धनेश्वरस्यानुचरो वरदोऽस्मि नृपात्मजे | 025a
अदेयमपि दास्यामि ब्रूहि यत्ते विवक्षितम् | 025c
ततः शिखण्डी तत्सर्वमखिलेन न्यवेदयत् | 026a
तस्मै यक्षप्रधानाय स्थूणाकर्णाय भारत || 026c
आपन्नो मे पिता यक्ष नचिराद्विनशिष्यति | 027a
अभियास्यति सङ्क्रुद्धो दशार्णाधिपतिर्हि तम् || 027c
महाबलो महोत्साहः स हेमकवचो नृपः | 028a
तस्माद्रक्षस्व मां यक्ष पितरं मातरं च मे || 028c
प्रतिज्ञातो हि भवता दुःखप्रतिनयो मम | 029a
भवेयं पुरुषो यक्ष त्वत्प्रसादादनिन्दितः || 029c
यावदेव स राजा वै नोपयाति पुरं मम | 030a
तावदेव महायक्ष प्रसादं कुरु गुह्यक || 030c