भीष्म उवाच || 001
एवमुक्तस्य दूतेन द्रुपदस्य तदा नृप | 001a
चोरस्येव गृहीतस्य न प्रावर्तत भारती || 001c
स यत्नमकरोत्तीव्रं सम्बन्धैरनुसान्त्वनैः | 002a
दूतैर्मधुरसम्भाषैर्नैतदस्तीति सन्दिशन् || 002c
स राजा भूय एवाथ कृत्वा तत्त्वत आगमम् | 003a
कन्येति पाञ्चालसुतां त्वरमाणोऽभिनिर्ययौ || 003c
ततः सम्प्रेषयामास मित्राणाममितौजसाम् | 004a
दुहितुर्विप्रलम्भं तं धात्रीणां वचनात्तदा || 004c
ततः समुदयं कृत्वा बलानां राजसत्तमः | 005a
अभियाने मतिं चक्रे द्रुपदं प्रति भारत || 005c
ततः सम्मन्त्रयामास मित्रैः सह महीपतिः | 006a
हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं प्रति || 006c
तत्र वै निश्चितं तेषामभूद्राज्ञां महात्मनाम् | 007a
तथ्यं चेद्भवति ह्येतत्कन्या राजञ्शिखण्डिनी | 007c
बद्ध्वा पाञ्चालराजानमानयिष्यामहे गृहान् || 007e
अन्यं राजानमाधाय पाञ्चालेषु नरेश्वरम् | 008a
घातयिष्याम नृपतिं द्रुपदं सशिखण्डिनम् || 008c
स तदा दूतमाज्ञाय पुनः क्षत्तारमीश्वरः | 009a
प्रास्थापयत्पार्षताय हन्मीति त्वां स्थिरो भव || 009c
स प्रकृत्या च वै भीरुः किल्बिषी च नराधिपः | 010a
भयं तीव्रमनुप्राप्तो द्रुपदः पृथिवीपतिः || 010c
विसृज्य दूतं दाशार्णं द्रुपदः शोककर्शितः | 011a
समेत्य भार्यां रहिते वाक्यमाह नराधिपः || 011c
भयेन महताविष्टो हृदि शोकेन चाहतः | 012a
पाञ्चालराजो दयितां मातरं वै शिखण्डिनः || 012c
अभियास्यति मां कोपात्सम्बन्धी सुमहाबलः | 013a
हिरण्यवर्मा नृपतिः कर्षमाणो वरूथिनीम् || 013c
किमिदानीं करिष्यामि मूढः कन्यामिमां प्रति | 014a
शिखण्डी किल पुत्रस्ते कन्येति परिशङ्कितः || 014c
इति निश्चित्य तत्त्वेन समित्रः सबलानुगः | 015a
वञ्चितोऽस्मीति मन्वानो मां किलोद्धर्तुमिच्छति || 015c
किमत्र तथ्यं सुश्रोणि किं मिथ्या ब्रूहि शोभने | 016a
श्रुत्वा त्वत्तः शुभे वाक्यं संविधास्याम्यहं तथा || 016c
अहं हि संशयं प्राप्तो बाला चेयं शिखण्डिनी | 017a
त्वं च राज्ञि महत्कृच्छ्रं सम्प्राप्ता वरवर्णिनि || 017c
सा त्वं सर्वविमोक्षाय तत्त्वमाख्याहि पृच्छतः | 018a
तथा विदध्यां सुश्रोणि कृत्यस्यास्य शुचिस्मिते | 018c
शिखण्डिनि च मा भैस्त्वं विधास्ये तत्र तत्त्वतः || 018e
क्रिययाहं वरारोहे वञ्चितः पुत्रधर्मतः | 019a
मया दाशार्णको राजा वञ्चितश्च महीपतिः | 019c
तदाचक्ष्व महाभागे विधास्ये तत्र यद्धितम् || 019e
जानतापि नरेन्द्रेण ख्यापनार्थं परस्य वै | 020a
प्रकाशं चोदिता देवी प्रत्युवाच महीपतिम्न || 020c