भीष्म उवाच || 001
चकार यत्नं द्रुपदः सर्वस्मिन्स्वजने महत् | 001a
ततो लेख्यादिषु तथा शिल्पेषु च परं गता | 001c
इष्वस्त्रे चैव राजेन्द्र द्रोणशिष्यो बभूव ह || 001e
तस्य माता महाराज राजानं वरवर्णिनी | 002a
चोदयामास भार्यार्थं कन्यायाः पुत्रवत्तदा || 002c
ततस्तां पार्षतो दृष्ट्वा कन्यां सम्प्राप्तयौवनाम् | 003a
स्त्रियं मत्वा तदा चिन्तां प्रपेदे सह भार्यया || 003c
द्रुपद उवाच || 004
कन्या ममेयं सम्प्राप्ता यौवनं शोकवर्धिनी | 004a
मया प्रच्छादिता चेयं वचनाच्छूलपाणिनः || 004c
न तन्मिथ्या महाराज्ञि भविष्यति कथञ्चन | 005a
त्रैलोक्यकर्ता कस्माद्धि तन्मृषा कर्तुमर्हति || 005c
भार्योवाच || 006
यदि ते रोचते राजन्वक्ष्यामि शृणु मे वचः | 006a
श्रुत्वेदानीं प्रपद्येथाः स्वकार्यं पृषतात्मज || 006c
क्रियतामस्य नृपते विधिवद्दारसङ्ग्रहः | 007a
सत्यं भवति तद्वाक्यमिति मे निश्चिता मतिः || 007c
भीष्म उवाच || 008
ततस्तौ निश्चयं कृत्वा तस्मिन्कार्येऽथ दम्पती | 008a
वरयां चक्रतुः कन्यां दशार्णाधिपतेः सुताम् || 008c
ततो राजा द्रुपदो राजसिंहः सर्वान्राज्ञः कुलतः सन्निशाम्य | 009a
दाशार्णकस्य नृपतेस्तनूजां शिखण्डिने वरयामास दारान् || 009c
हिरण्यवर्मेति नृपो योऽसौ दाशार्णकः स्मृतः | 010a
स च प्रादान्महीपालः कन्यां तस्मै शिखण्डिने || 010c
स च राजा दशार्णेषु महानासीन्महीपतिः | 011a
हिरण्यवर्मा दुर्धर्षो महासेनो महामनाः || 011c
कृते विवाहे तु तदा सा कन्या राजसत्तम | 012a
यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी || 012c
कृतदारः शिखण्डी तु काम्पिल्यं पुनरागमत् | 013a
न च सा वेद तां कन्यां कञ्चित्कालं स्त्रियं किल || 013c
हिरण्यवर्मणः कन्या ज्ञात्वा तां तु शिखण्डिनीम् | 014a
धात्रीणां च सखीनां च व्रीडमाना न्यवेदयत् | 014c
कन्यां पञ्चालराजस्य सुतां तां वै शिखण्डिनीम् || 014e
ततस्ता राजशार्दूल धात्र्यो दाशार्णिकास्तदा | 015a
जग्मुरार्तिं परां दुःखात्प्रेषयामासुरेव च || 015c
ततो दशार्णाधिपतेः प्रेष्याः सर्वं न्यवेदयन् | 016a
विप्रलम्भं यथावृत्तं स च चुक्रोध पार्थिवः || 016c
शिखण्ड्यपि महाराज पुंवद्राजकुले तदा | 017a
विजहार मुदा युक्तः स्त्रीत्वं नैवातिरोचयन् || 017c
ततः कतिपयाहस्य तच्छ्रुत्वा भरतर्षभ | 018a
हिरण्यवर्मा राजेन्द्र रोषादार्तिं जगाम ह || 018c
ततो दाशार्णको राजा तीव्रकोपसमन्वितः | 019a
दूतं प्रस्थापयामास द्रुपदस्य निवेशने || 019c
ततो द्रुपदमासाद्य दूतः काञ्चनवर्मणः | 020a
एक एकान्तमुत्सार्य रहो वचनमब्रवीत् || 020c
दशार्णराजो राजंस्त्वामिदं वचनमब्रवीत् | 021a
अभिषङ्गात्प्रकुपितो विप्रलब्धस्त्वयानघ || 021c
अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव | 022a
यन्मे कन्यां स्वकन्यार्थे मोहाद्याचितवानसि || 022c
तस्याद्य विप्रलम्भस्य फलं प्राप्नुहि दुर्मते | 023a
एष त्वां सजनामात्यमुद्धरामि स्थिरो भव || 023c