दुर्योधन उवाच || 001
कथं शिखण्डी गाङ्गेय कन्या भूत्वा सती तदा | 001a
पुरुषोऽभवद्युधि श्रेष्ठ तन्मे ब्रूहि पितामह || 001c
भीष्म उवाच || 002
भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः | 002a
महिषी दयिता ह्यासीदपुत्रा च विशां पते || 002c
एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः | 003a
अपत्यार्थं महाराज तोषयामास शङ्करम् || 003c
अस्मद्वधार्थं निश्चित्य तपो घोरं समास्थितः | 004a
लेभे कन्यां महादेवात्पुत्रो मे स्यादिति ब्रुवन् || 004c
भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया | 005a
इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति || 005c
निवर्तस्व महीपाल नैतज्जात्वन्यथा भवेत् | 006a
स तु गत्वा च नगरं भार्यामिदमुवाच ह || 006c
कृतो यत्नो मया देवि पुत्रार्थे तपसा महान् | 007a
कन्या भूत्वा पुमान्भावी इति चोक्तोऽस्मि शम्भुना || 007c
पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः | 008a
न तदन्यद्धि भविता भवितव्यं हि तत्तथा || 008c
ततः सा नियता भूत्वा ऋतुकाले मनस्विनी | 009a
पत्नी द्रुपदराजस्य द्रुपदं संविवेश ह || 009c
लेभे गर्भं यथाकालं विधिदृष्टेन हेतुना | 010a
पार्षतात्सा महीपाल यथा मां नारदोऽब्रवीत् || 010c
ततो दधार तं गर्भं देवी राजीवलोचना | 011a
तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन | 011c
पुत्रस्नेहान्महाबाहुः सुखं पर्यचरत्तदा || 011e
अपुत्रस्य ततो राज्ञो द्रुपदस्य महीपतेः | 012a
कन्यां प्रवररूपां तां प्राजायत नराधिप || 012c
अपुत्रस्य तु राज्ञः सा द्रुपदस्य यशस्विनी | 013a
ख्यापयामास राजेन्द्र पुत्रो जातो ममेति वै || 013c
ततः स राजा द्रुपदः प्रच्छन्नाया नराधिप | 014a
पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत् || 014c
रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा | 015a
चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्युत | 015c
न हि तां वेद नगरे कश्चिदन्यत्र पार्षतात् || 015e
श्रद्दधानो हि तद्वाक्यं देवस्याद्भुततेजसः | 016a
छादयामास तां कन्यां पुमानिति च सोऽब्रवीत् || 016c
जातकर्माणि सर्वाणि कारयामास पार्थिवः | 017a
पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः || 017c
अहमेकस्तु चारेण वचनान्नारदस्य च | 018a
ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा || 018c