भीष्म उवाच || 001
ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम् | 001a
दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् || 001c
तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा | 002a
निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः || 002c
वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः | 003a
निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः || 003c
यत्कृते दुःखवसतिमिमां प्राप्तास्मि शाश्वतीम् | 004a
पतिलोकाद्विहीना च नैव स्त्री न पुमानिह || 004c
नाहत्वा युधि गाङ्गेयं निवर्तेयं तपोधनाः | 005a
एष मे हृदि सङ्कल्पो यदर्थमिदमुद्यतम् || 005c
स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया | 006a
भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः || 006c
तां देवो दर्शयामास शूलपाणिरुमापतिः | 007a
मध्ये तेषां महर्षीणां स्वेन रूपेण भामिनीम् || 007c
छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम् | 008a
वधिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् || 008c
ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह | 009a
उपपद्येत्कथं देव स्त्रियो मम जयो युधि | 009c
स्त्रीभावेन च मे गाढं मनः शान्तमुमापते || 009e
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः | 010a
यथा स सत्यो भवति तथा कुरु वृषध्वज | 010c
यथा हन्यां समागम्य भीष्मं शान्तनवं युधि || 010e
तामुवाच महादेवः कन्यां किल वृषध्वजः | 011a
न मे वागनृतं भद्रे प्राह सत्यं भविष्यति || 011c
वधिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे | 012a
स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती || 012c
द्रुपदस्य कुले जाता भविष्यसि महारथः | 013a
शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसम्मतः || 013c
यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति | 014a
भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात् || 014c
एवमुक्त्वा महातेजाः कपर्दी वृषभध्वजः | 015a
पश्यतामेव विप्राणां तत्रैवान्तरधीयत || 015c
ततः सा पश्यतां तेषां महर्षीणामनिन्दिता | 016a
समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी || 016c
चितां कृत्वा सुमहतीं प्रदाय च हुताशन |म् 017a
प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा || 017c
उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम् | 018a
ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम् || 018c