राम उवाच || 001
प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि | 001a
यथा मया परं शक्त्या कृतं वै पौरुषं महत् || 001c
न चैव युधि शक्नोमि भीष्मं शस्त्रभृतां वरम् | 002a
विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन् || 002c
एषा मे परमा शक्तिरेतन्मे परमं बलम् | 003a
यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते || 003c
भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः | 004a
निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता || 004c
भीष्म उवाच || 005
एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः | 005a
तूष्णीमासीत्तदा कन्या प्रोवाच भृगुनन्दनम् || 005c
भगवन्नेवमेवैतद्यथाह भगवांस्तथा | 006a
अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः || 006c
यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया | 007a
अनिधाय रणे वीर्यमस्त्राणि विविधानि च || 007c
न चैष शक्यते युद्धे विशेषयितुमन्ततः | 008a
न चाहमेनं यास्यामि पुनर्भीष्मं कथञ्चन || 008c
गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन | 009a
समरे पातयिष्यामि स्वयमेव भृगूद्वह || 009c
एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना | 010a
तपसे धृतसङ्कल्पा मम चिन्तयती वधम् || 010c
ततो महेन्द्रं सह तैर्मुनिभिर्भृगुसत्तमः | 011a
यथागतं ययौ रामो मामुपामन्त्र्य भारत || 011c
ततोऽहं रथमारुह्य स्तूयमानो द्विजातिभिः | 012a
प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम् | 012c
यथावृत्तं महाराज सा च मां प्रत्यनन्दत || 012e
पुरुषांश्चादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि | 013a
दिवसे दिवसे ह्यस्या गतजल्पितचेष्टितम् | 013c
प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते मम || 013e
यदैव हि वनं प्रायात्कन्या सा तपसे धृता | 014a
तदैव व्यथितो दीनो गतचेता इवाभवम् || 014c
न हि मां क्षत्रियः कश्चिद्वीर्येण विजयेद्युधि | 015a
ऋते ब्रह्मविदस्तात तपसा संशितव्रतात् || 015c
अपि चैतन्मया राजन्नारदेऽपि निवेदितम् | 016a
व्यासे चैव भयात्कार्यं तौ चोभौ मामवोचताम् || 016c
न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति | 017a
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् || 017c
सा तु कन्या महाराज प्रविश्याश्रममण्डलम् | 018a
यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम् || 018c
निराहारा कृशा रूक्षा जटिला मलपङ्किनी | 019a
षण्मासान्वायुभक्षा च स्थाणुभूता तपोधना || 019c
यमुनातीरमासाद्य संवत्सरमथापरम् | 020a
उदवासं निराहारा पारयामास भामिनी || 020c
शीर्णपर्णेन चैकेन पारयामास चापरम् | 021a
संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता || 021c
एवं द्वादश वर्षाणि तापयामास रोदसी | 022a
निवर्त्यमानापि तु सा ज्ञातिभिर्नैव शक्यते || 022c
ततोऽगमद्वत्सभूमिं सिद्धचारणसेविताम् | 023a
आश्रमं पुण्यशीलानां तापसानां महात्मनाम् || 023c
तत्र पुण्येषु देशेषु साप्लुताङ्गी दिवानिशम् | 024a
व्यचरत्काशिकन्या सा यथाकामविचारिणी || 024c
नन्दाश्रमे महाराज ततोलूकाश्रमे शुभे | 025a
च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च || 025c
प्रयागे देवयजने देवारण्येषु चैव ह | 026a
भोगवत्यां तथा राजन्कौशिकस्याश्रमे तथा || 026c
माण्डव्यस्याश्रमे राजन्दिलीपस्याश्रमे तथा | 027a
रामह्रदे च कौरव्य पैलगार्ग्यस्य चाश्रमे || 027c
एतेषु तीर्थेषु तदा काशिकन्या विशां पते | 028a
आप्लावयत गात्राणि तीव्रमास्थाय वै तपः || 028c
तामब्रवीत्कौरवेय मम माता जलोत्थिता | 029a
किमर्थं क्लिश्यसे भद्रे तथ्यमेतद्ब्रवीहि मे || 029c
सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता | 030a
भीष्मो रामेण समरे न जितश्चारुलोचने || 030c
कोऽन्यस्तमुत्सहेज्जेतुमुद्यतेषुं महीपतिम् | 031a
साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम् || 031c
चरामि पृथिवीं देवि यथा हन्यामहं नृपम् | 032a
एतद्व्रतफलं देहे परस्मिन्स्याद्यथा हि मे || 032c
ततोऽब्रवीत्सागरगा जिह्मं चरसि भामिनि | 033a
नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाबले || 033c
यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम् || 034a
व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि | 034c
नदी भविष्यसि शुभे कुटिला वार्षिकोदका || 034e
दुस्तीर्था चानभिज्ञेया वार्षिकी नाष्टमासिकी | 035a
भीमग्राहवती घोरा सर्वभूतभयङ्करी || 035c
एवमुक्त्वा ततो राजन्काशिकन्यां न्यवर्तत | 036a
माता मम महाभागा स्मयमानेव भामिनी || 036c
कदाचिदष्टमे मासि कदाचिद्दशमे तथा | 037a
न प्राश्नीतोदकमपि पुनः सा वरवर्णिनी || 037c
सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः | 038a
पतिता परिधावन्ती पुनः काशिपतेः सुता || 038c
सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत | 039a
वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा || 039c
सा कन्या तपसा तेन भागार्धेन व्यजायत | 040a
नदी च राजन्वत्सेषु कन्या चैवाभवत्तदा || 040c