भीष्म उवाच || 001
ततो हलहलाशब्दो दिवि राजन्महानभूत् | 001a
प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन || 001c
अयुञ्जमेव चैवाहं तदस्त्रं भृगुनन्दने | 002a
प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यमब्रवीत् || 002c
एते वियति कौरव्य दिवि देवगणाः स्थिताः | 003a
ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजय || 003c
रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते | 004a
तस्यावमानं कौरव्य मा स्म कार्षीः कथञ्चन || 004c
ततोऽपश्यं दिविष्ठान्वै तानष्टौ ब्रह्मवादिनः | 005a
ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन् || 005c
यथाह भरतश्रेष्ठ नारदस्तत्तथा कुरु | 006a
एतद्धि परमं श्रेयो लोकानां भरतर्षभ || 006c
ततश्च प्रतिसंहृत्य तदस्त्रं स्वापनं मृधे | 007a
ब्रह्मास्त्रं दीपयां चक्रे तस्मिन्युधि यथाविधि || 007c
ततो रामो रुषितो राजपुत्र दृष्ट्वा तदस्त्रं विनिवर्तितं वै | 008a
जितोऽस्मि भीष्मेण सुमन्दबुद्धिरित्येव वाक्यं सहसा व्यमुञ्चत् || 008c
ततोऽपश्यत्पितरं जामदग्न्यः पितुस्तथा पितरं तस्य चान्यम् | 009a
त एवैनं सम्परिवार्य तस्थुरूचुश्चैनं सान्त्वपूर्वं तदानीम् || 009c
मा स्मैवं साहसं वत्स पुनः कार्षीः कथञ्चन | 010a
भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः || 010c
क्षत्रियस्य तु धर्मोऽयं यद्युद्धं भृगुनन्दन | 011a
स्वाध्यायो व्रतचर्या च ब्राह्मणानां परं धनम् || 011c
इदं निमित्ते कस्मिंश्चिदस्माभिरुपमन्त्रितम् | 012a
शस्त्रधारणमत्युग्रं तच्च कार्यं कृतं त्वया || 012c
वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे | 013a
विमर्दस्ते महाबाहो व्यपयाहि रणादितः || 013c
पर्याप्तमेतद्भद्रं ते तव कार्मुकधारणम् | 014a
विसर्जयैतद्दुर्धर्ष तपस्तप्यस्व भार्गव || 014c
एष भीष्मः शान्तनवो देवैः सर्वैर्निवारितः | 015a
निवर्तस्व रणादस्मादिति चैव प्रचोदितः || 015c
रामेण सह मा योत्सीर्गुरुणेति पुनः पुनः | 016a
न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह | 016c
मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे || 016e
वयं तु गुरवस्तुभ्यं ततस्त्वां वारयामहे | 017a
भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रक || 017c
गाङ्गेयः शन्तनोः पुत्रो वसुरेष महायशाः | 018a
कथं त्वया रणे जेतुं राम शक्यो निवर्त वै || 018c
अर्जुनः पाण्डवश्रेष्ठः पुरन्दरसुतो बली | 019a
नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः || 019c
सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान् | 020a
भीष्ममृत्युर्यथाकालं विहितो वै स्वयम्भुवा || 020c
एवमुक्तः स पितृभिः पितॄन्रामोऽब्रवीदिदम् | 021a
नाहं युधि निवर्तेयमिति मे व्रतमाहितम् || 021c
न निवर्तितपूर्वं च कदाचिद्रणमूर्धनि | 022a
निवर्त्यतामापगेयः कामं युद्धात्पितामहाः | 022c
न त्वहं विनिवर्तिष्ये युद्धादस्मात्कथञ्चन || 022e
ततस्ते मुनयो राजन्नृचीकप्रमुखास्तदा | 023a
नारदेनैव सहिताः समागम्येदमब्रुवन् || 023c
निवर्तस्व रणात्तात मानयस्व द्विजोत्तमान् | 024a
नेत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया || 024c
मम व्रतमिदं लोके नाहं युद्धात्कथञ्चन | 025a
विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतः शरैः || 025c
नाहं लोभान्न कार्पण्यान्न भयान्नार्थकारणात् | 026a
त्यजेयं शाश्वतं धर्ममिति मे निश्चिता मतिः || 026c
ततस्ते मुनयः सर्वे नारदप्रमुखा नृप | 027a
भागीरथी च मे माता रणमध्यं प्रपेदिरे || 027c
तथैवात्तशरो धन्वी तथैव दृढनिश्चयः | 028a
स्थितोऽहमाहवे योद्धुं ततस्ते राममब्रुवन् | 028c
समेत्य सहिता भूयः समरे भृगुनन्दनम् || 028e
नावनीतं हि हृदयं विप्राणां शाम्य भार्गव | 029a
राम राम निवर्तस्व युद्धादस्माद्द्विजोत्तम | 029c
अवध्यो हि त्वया भीष्मस्त्वं च भीष्मस्य भार्गव || 029e
एवं ब्रुवन्तस्ते सर्वे प्रतिरुध्य रणाजिरम् | 030a
न्यासयां चक्रिरे शस्त्रं पितरो भृगुनन्दनम् || 030c
ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः | 031a
अद्राक्षं दीप्यमानान्वै ग्रहानष्टाविवोदितान् || 031c
ते मां सप्रणयं वाक्यमब्रुवन्समरे स्थितम् | 032a
प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु || 032c
दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै | 033a
लोकानां च हितं कुर्वन्नहमप्याददे वचः || 033c
ततोऽहं राममासाद्य ववन्दे भृशविक्षतः | 034a
रामश्चाभ्युत्स्मयन्प्रेम्णा मामुवाच महातपाः || 034c
त्वत्समो नास्ति लोकेऽस्मिन्क्षत्रियः पृथिवीचरः | 035a
गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया || 035c
मम चैव समक्षं तां कन्यामाहूय भार्गवः | 036a
उवाच दीनया वाचा मध्ये तेषां तपस्विनाम् || 036c