भीष्म उवाच || 001
ततो रात्र्यां व्यतीतायां प्रतिबुद्धोऽस्मि भारत | 001a
तं च सञ्चिन्त्य वै स्वप्नमवापं हर्षमुत्तमम् || 001c
ततः समभवद्युद्धं मम तस्य च भारत | 002a
तुमुलं सर्वभूतानां लोमहर्षणमद्भुतम् || 002c
ततो बाणमयं वर्षं ववर्ष मयि भार्गवः | 003a
न्यवारयमहं तं च शरजालेन भारत || 003c
ततः परमसङ्क्रुद्धः पुनरेव महातपाः | 004a
ह्यस्तनेनैव कोपेन शक्तिं वै प्राहिणोन्मयि || 004c
इन्द्राशनिसमस्पर्शां यमदण्डोपमप्रभाम् | 005a
ज्वलन्तीमग्निवत्सङ्ख्ये लेलिहानां समन्ततः || 005c
ततो भरतशार्दूल धिष्ण्यमाकाशगं यथा | 006a
सा मामभ्यहनत्तूर्णमंसदेशे च भारत || 006c
अथासृङ्मेऽस्रवद्घोरं गिरेर्गैरिकधातुवत् | 007a
रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण || 007c
ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः | 008a
प्रेषयं मृत्युसङ्काशं बाणं सर्पविषोपमम् || 008c
स तेनाभिहतो वीरो ललाटे द्विजसत्तमः | 009a
अशोभत महाराज सशृङ्ग इव पर्वतः || 009c
स संरब्धः समावृत्य बाणं कालान्तकोपमम् | 010a
सन्दधे बलवत्कृष्य घोरं शत्रुनिबर्हणम् || 010c
स वक्षसि पपातोग्रः शरो व्याल इव श्वसन् | 011a
महीं राजंस्ततश्चाहमगच्छं रुधिराविलः || 011c
अवाप्य तु पुनः सञ्ज्ञां जामदग्न्याय धीमते | 012a
प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव || 012c
सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे | 013a
विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत् || 013c
तत एनं परिष्वज्य सखा विप्रो महातपाः | 014a
अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा || 014c
समाश्वस्तस्तदा रामः क्रोधामर्षसमन्वितः | 015a
प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः || 015c
ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम् | 016a
मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत् || 016c
तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः | 017a
असम्प्राप्यैव रामं च मां च भारतसत्तम || 017c
ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम् | 018a
भूतानि चैव सर्वाणि जग्मुरार्तिं विशां पते || 018c
ऋषयश्च सगन्धर्वा देवताश्चैव भारत | 019a
सन्तापं परमं जग्मुरस्त्रतेजोभिपीडिताः || 019c
ततश्चचाल पृथिवी सपर्वतवनद्रुमा | 020a
सन्तप्तानि च भूतानि विषादं जग्मुरुत्तमम् || 020c
प्रजज्वाल नभो राजन्धूमायन्ते दिशो दश | 021a
न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा || 021c
ततो हाहाकृते लोके सदेवासुरराक्षसे | 022a
इदमन्तरमित्येव योक्तुकामोऽस्मि भारत || 022c
प्रस्वापमस्त्रं दयितं वचनाद्ब्रह्मवादिनाम् | 023a
चिन्तितं च तदस्त्रं मे मनसि प्रत्यभात्तदा || 023c