भीष्म उवाच || 001
ततोऽहं निशि राजेन्द्र प्रणम्य शिरसा तदा | 001a
ब्राह्मणानां पितॄणां च देवतानां च सर्वशः || 001c
नक्तञ्चराणां भूतानां रजन्याश्च विशां पते | 002a
शयनं प्राप्य रहिते मनसा समचिन्तयम् || 002c
जामदग्न्येन मे युद्धमिदं परमदारुणम् | 003a
अहानि सुबहून्यद्य वर्तते सुमहात्ययम् || 003c
न च रामं महावीर्यं शक्नोमि रणमूर्धनि | 004a
विजेतुं समरे विप्रं जामदग्न्यं महाबलम् || 004c
यदि शक्यो मया जेतुं जामदग्न्यः प्रतापवान् | 005a
दैवतानि प्रसन्नानि दर्शयन्तु निशां मम || 005c
ततोऽहं निशि राजेन्द्र प्रसुप्तः शरविक्षतः | 006a
दक्षिणेनैव पार्श्वेन प्रभातसमये इव || 006c
ततोऽहं विप्रमुख्यैस्तैर्यैरस्मि पतितो रथात् | 007a
उत्थापितो धृतश्चैव मा भैरिति च सान्त्वितः || 007c
त एव मां महाराज स्वप्नदर्शनमेत्य वै | 008a
परिवार्याब्रुवन्वाक्यं तन्निबोध कुरूद्वह || 008c
उत्तिष्ठ मा भैर्गाङ्गेय भयं ते नास्ति किञ्चन | 009a
रक्षामहे नरव्याघ्र स्वशरीरं हि नो भवान् || 009c
न त्वां रामो रणे जेता जामदग्न्यः कथञ्चन | 010a
त्वमेव समरे रामं विजेता भरतर्षभ || 010c
इदमस्त्रं सुदयितं प्रत्यभिज्ञास्यते भवान् | 011a
विदितं हि तवाप्येतत्पूर्वस्मिन्देहधारणे || 011c
प्राजापत्यं विश्वकृतं प्रस्वापं नाम भारत | 012a
न हीदं वेद रामोऽपि पृथिव्यां वा पुमान्क्वचित् || 012c
तत्स्मरस्व महाबाहो भृशं संयोजयस्व च | 013a
न च रामः क्षयं गन्ता तेनास्त्रेण नराधिप || 013c
एनसा च न योगं त्वं प्राप्स्यसे जातु मानद | 014a
स्वप्स्यते जामदग्न्योऽसौ त्वद्बाणबलपीडितः || 014c
ततो जित्वा त्वमेवैनं पुनरुत्थापयिष्यसि | 015a
अस्त्रेण दयितेनाजौ भीष्म सम्बोधनेन वै || 015c
एवं कुरुष्व कौरव्य प्रभाते रथमास्थितः | 016a
प्रसुप्तं वा मृतं वापि तुल्यं मन्यामहे वयम् || 016c
न च रामेण मर्तव्यं कदाचिदपि पार्थिव | 017a
ततः समुत्पन्नमिदं प्रस्वापं युज्यतामिति || 017c
इत्युक्त्वान्तर्हिता राजन्सर्व एव द्विजोत्तमाः | 018a
अष्टौ सदृशरूपास्ते सर्वे भास्वरमूर्तयः || 018c