भीष्म उवाच || 001
ततः प्रभाते राजेन्द्र सूर्ये विमल उद्गते | 001a
भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत || 001c
ततो भ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः | 002a
ववर्ष शरवर्षाणि मयि शक्र इवाचले || 002c
तेन सूतो मम सुहृच्छरवर्षेण ताडितः | 003a
निपपात रथोपस्थे मनो मम विषादयन् || 003c
ततः सूतः स मेऽत्यर्थं कश्मलं प्राविशन्महत् || 004a
पृथिव्यां च शराघातान्निपपात मुमोह च || 004c
ततः सूतोऽजहात्प्राणान्रामबाणप्रपीडितः | 005a
मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा || 005c
ततः सूते हते राजन्क्षिपतस्तस्य मे शरान् | 006a
प्रमत्तमनसो रामः प्राहिणोन्मृत्युसम्मितान् || 006c
ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः | 007a
शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः || 007c
स मे जत्र्वन्तरे राजन्निपत्य रुधिराशनः | 008a
मयैव सह राजेन्द्र जगाम वसुधातलम् || 008c
मत्वा तु निहतं रामस्ततो मां भरतर्षभ | 009a
मेघवद्व्यनदच्चोच्चैर्जहृषे च पुनः पुनः || 009c
तथा तु पतिते राजन्मयि रामो मुदा युतः | 010a
उदक्रोशन्महानादं सह तैरनुयायिभिः || 010c
मम तत्राभवन्ये तु कौरवाः पार्श्वतः स्थिताः | 011a
आगता ये च युद्धं तज्जनास्तत्र दिदृक्षवः | 011c
आर्तिं परमिकां जग्मुस्ते तदा मयि पातिते || 011e
ततोऽपश्यं पातितो राजसिंह द्विजानष्टौ सूर्यहुताशनाभान् | 012a
ते मां समन्तात्परिवार्य तस्थुः स्वबाहुभिः परिगृह्याजिमध्ये || 012c
रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम् || 013a
अन्तरिक्षे स्थितो ह्यस्मि तैर्विप्रैर्बान्धवैरिव | 013c
स्वपन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः || 013e
ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम् | 014a
मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत् || 014c
ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः | 015a
मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् || 015c
हयाश्च मे सङ्गृहीतास्तया वै महानद्या संयति कौरवेन्द्र | 016a
पादौ जनन्याः प्रतिपूज्य चाहं तथार्ष्टिषेणं रथमभ्यरोहम् || 016c
ररक्ष सा मम रथं हयांश्चोपस्कराणि च | 017a
तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् || 017c
ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः | 018a
अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत || 018c
ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम् | 019a
अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् || 019c
ततो जगाम वसुधां बाणवेगप्रपीडितः | 020a
जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः || 020c
ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे | 021a
आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु || 021c
उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः | 022a
अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् || 022c
ववुश्च वाताः परुषाश्चलिता च वसुन्धरा | 023a
गृध्रा बडाश्च कङ्काश्च परिपेतुर्मुदा युताः || 023c
दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत् | 024a
अनाहता दुन्दुभयो विनेदुर्भृशनिस्वनाः || 024c
एतदौत्पातिकं घोरमासीद्भरतसत्तम | 025a
विसञ्ज्ञकल्पे धरणीं गते रामे महात्मनि || 025c
ततो रविर्मन्दमरीचिमण्डलो जगामास्तं पांसुपुञ्जावगाढः | 026a
निशा व्यगाहत्सुखशीतमारुता ततो युद्धं प्रत्यवहारयावः || 026c
एवं राजन्नवहारो बभूव ततः पुनर्विमलेऽभूत्सुघोरम् | 027a
काल्यं काल्यं विंशतिं वै दिनानि तथैव चान्यानि दिनानि त्रीणि || 027c