भीष्म उवाच || 001
समागतस्य रामेण पुनरेवातिदारुणम् | 001a
अन्येद्युस्तुमुलं युद्धं तदा भरतसत्तम || 001c
ततो दिव्यास्त्रविच्छूरो दिव्यान्यस्त्राण्यनेकशः | 002a
अयोजयत धर्मात्मा दिवसे दिवसे विभुः || 002c
तान्यहं तत्प्रतीघातैरस्त्रैरस्त्राणि भारत | 003a
व्यधमं तुमुले युद्धे प्राणांस्त्यक्त्वा सुदुस्त्यजान् || 003c
अस्त्रैरस्त्रेषु बहुधा हतेष्वथ च भार्गवः | 004a
अक्रुध्यत महातेजास्त्यक्तप्राणः स संयुगे || 004c
ततः शक्तिं प्राहिणोद्घोररूपामस्त्रै रुद्धो जामदग्न्यो महात्मा | 005a
कालोत्सृष्टां प्रज्वलितामिवोल्कां सन्दीप्ताग्रां तेजसावृत्य लोकान् || 005c
ततोऽहं तामिषुभिर्दीप्यमानैः समायान्तीमन्तकालार्कदीप्ताम् | 006a
छित्त्वा त्रिधा पातयामास भूमौ ततो ववौ पवनः पुण्यगन्धिः || 006c
तस्यां छिन्नायां क्रोधदीप्तोऽथ रामः शक्तीर्घोराः प्राहिणोद्द्वादशान्याः | 007a
तासां रूपं भारत नोत शक्यं तेजस्वित्वाल्लाघवाच्चैव वक्तुम् || 007c
किं त्वेवाहं विह्वलः सम्प्रदृश्य दिग्भ्यः सर्वास्ता महोल्का इवाग्नेः | 008a
नानारूपास्तेजसोग्रेण दीप्ता यथादित्या द्वादश लोकसङ्क्षये || 008c
ततो जालं बाणमयं विवृत्य सन्दृश्य भित्त्वा शरजालेन राजन् | 009a
द्वादशेषून्प्राहिणवं रणेऽहं ततः शक्तीर्व्यधमं घोररूपाः || 009c
ततोऽपरा जामदग्न्यो महात्मा शक्तीर्घोराः प्राक्षिपद्धेमदण्डाः | 010a
विचित्रिताः काञ्चनपट्टनद्धा यथा महोल्का ज्वलितास्तथा ताः || 010c
ताश्चाप्युग्राश्चर्मणा वारयित्वा खड्गेनाजौ पातिता मे नरेन्द्र | 011a
बाणैर्दिव्यैर्जामदग्न्यस्य सङ्ख्ये दिव्यांश्चाश्वानभ्यवर्षं ससूतान् || 011c
निर्मुक्तानां पन्नगानां सरूपा दृष्ट्वा शक्तीर्हेमचित्रा निकृत्ताः | 012a
प्रादुश्चक्रे दिव्यमस्त्रं महात्मा क्रोधाविष्टो हैहयेशप्रमाथी || 012c
ततः श्रेण्यः शलभानामिवोग्राः समापेतुर्विशिखानां प्रदीप्ताः | 013a
समाचिनोच्चापि भृशं शरीरं हयान्सूतं सरथं चैव मह्यम् || 013c
रथः शरैर्मे निचितः सर्वतोऽभूत्तथा हयाः सारथिश्चैव राजन् | 014a
युगं रथेषा च तथैव चक्रे तथैवाक्षः शरकृत्तोऽथ भग्नः || 014c
ततस्तस्मिन्बाणवर्षे व्यतीते शरौघेण प्रत्यवर्षं गुरुं तम् | 015a
स विक्षतो मार्गणैर्ब्रह्मराशिर्देहादजस्रं मुमुचे भूरि रक्तम् || 015c
यथा रामो बाणजालाभितप्तस्तथैवाहं सुभृशं गाढविद्धः | 016a
ततो युद्धं व्यरमच्चापराह्णे भानावस्तं प्रार्थयाने महीध्रम् || 016c