भीष्म उवाच || 001
आत्मनस्तु ततः सूतो हयानां च विशां पते | 001a
मम चापनयामास शल्यान्कुशलसम्मतः || 001c
स्नातोपवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः | 002a
प्रभात उदिते सूर्ये ततो युद्धमवर्तत || 002c
दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम् | 003a
अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् || 003c
ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम् | 004a
धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात् || 004c
अभिवाद्य तथैवाहं रथमारुह्य भारत | 005a
युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः || 005c
ततो मां शरवर्षेण महता समवाकिरत् | 006a
अहं च शरवर्षेण वर्षन्तं समवाकिरम् || 006c
सण्ड्क्रुद्धो जामदग्न्यस्तु पुनरेव पतत्रिणः | 007a
प्रेषयामास मे राजन्दीप्तास्यानुरगानिव || 007c
तानहं निशितैर्भल्लैः शतशोऽथ सहस्रशः | 008a
अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः || 008c
ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान् | 009a
मयि प्रचोदयामास तान्यहं प्रत्यषेधयम् || 009c
अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम् | 010a
ततो दिवि महान्नादः प्रादुरासीत्समन्ततः || 010c
ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान् | 011a
प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत || 011c
ततोऽस्त्रमहमाग्नेयमनुमन्त्र्य प्रयुक्तवान् | 012a
वारुणेनैव रामस्तद्वारयामास मे विभुः || 012c
एवमस्त्राणि दिव्यानि रामस्याहमवारयम् | 013a
रामश्च मम तेजस्वी दिव्यास्त्रविदरिन्दमः || 013c
ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः | 014a
उरस्यविध्यत्सङ्क्रुद्धो जामदग्न्यो महाबलः || 014c
ततोऽहं भरतश्रेष्ठ सन्न्यषीदं रथोत्तमे | 015a
अथ मां कश्मलाविष्टं सूतस्तूर्णमपावहत् || 015c
गोरुतं भरतश्रेष्ठ रामबाणप्रपीडितम् | 015e
ततो मामपयातं वै भृशं विद्धमचेतसम् || 016a
रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा प्रचुक्रुशुः | 016c
अकृतव्रणप्रभृतयः काशिकन्या च भारत || 016e
ततस्तु लब्धसञ्ज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम् | 017a
याहि सूत यतो रामः सज्जोऽहं गतवेदनः || 017c
ततो मामवहत्सूतो हयैः परमशोभितैः | 018a
नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ || 018c
ततोऽहं राममासाद्य बाणजालेन कौरव | 019a
अवाकिरं सुसंरब्धः संरब्धं विजिगीषया || 019c
तानापतत एवासौ रामो बाणानजिह्मगान् | 020a
बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे || 020c
ततस्ते मृदिताः सर्वे मम बाणाः सुसंशिताः | 021a
रामबाणैर्द्विधा छिन्नाः शतशोऽथ महाहवे || 021c
ततः पुनः शरं दीप्तं सुप्रभं कालसम्मितम् | 022a
असृजं जामदग्न्याय रामायाहं जिघांसया || 022c
तेन त्वभिहतो गाढं बाणच्छेदवशं गतः | 023a
मुमोह सहसा रामो भूमौ च निपपात ह || 023c
ततो हाहाकृतं सर्वं रामे भूतलमाश्रिते | 024a
जगद्भारत संविग्नं यथार्कपतनेऽभवत् || 024c
तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुः | 025a
तपोधनास्ते सहसा काश्या च भृगुनन्दनम् || 025c
त एनं सम्परिष्वज्य शनैराश्वासयंस्तदा | 026a
पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव || 026c
ततः स विह्वलो वाक्यं राम उत्थाय माब्रवीत् | 027a
तिष्ठ भीष्म हतोऽसीति बाणं सन्धाय कार्मुके || 027c
स मुक्तो न्यपतत्तूर्णं पार्श्वे सव्ये महाहवे | 028a
येनाहं भृशसंविग्नो व्याघूर्णित इव द्रुमः || 028c
हत्वा हयांस्ततो राजञ्शीघ्रास्त्रेण महाहवे | 029a
अवाकिरन्मां विश्रब्धो बाणैस्तैर्लोमवाहिभिः || 029c
ततोऽहमपि शीघ्रास्त्रं समरेऽप्रतिवारणम् | 030a
अवासृजं महाबाहो तेऽन्तराधिष्ठिताः शराः | 030c
रामस्य मम चैवाशु व्योमावृत्य समन्ततः || 030e
न स्म सूर्यः प्रतपति शरजालसमावृतः | 031a
मातरिश्वान्तरे तस्मिन्मेघरुद्ध इवानदत् || 031c
ततो वायोः प्रकम्पाच्च सूर्यस्य च मरीचिभिः | 032a
अभितापात्स्वभावाच्च पावकः समजायत || 032c
ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना | 033a
भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे || 033c
तदा शतसहस्राणि प्रयुतान्यर्बुदानि च | 034a
अयुतान्यथ खर्वाणि निखर्वाणि च कौरव | 034c
रामः शराणां सङ्क्रुद्धो मयि तूर्णमपातयत् || 034e
ततोऽहं तानपि रणे शरैराशीविषोपमैः | 035a
सञ्छिद्य भूमौ नृपतेऽपातयं पन्नगानिव || 035c
एवं तदभवद्युद्धं तदा भरतसत्तम | 036a
सन्ध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः || 036c