001 भीष्म उवाच || 001a तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् | 001c भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः || 002a आरोह स्यन्दनं वीर कवचं च महाभुज | 002c बधान समरे राम यदि योद्धुं मयेच्छसि || 003a ततो मामब्रवीद्रामः स्मयमानो रणाजिरे | 003c रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत् || 004a सूतो मे मातरिश्वा वै कवचं वेदमातरः | 004c सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन || 005a एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः | 005c शरव्रातेन महता सर्वतः पर्यवारयत् || 006a ततोऽपश्यं जामदग्न्यं रथे दिव्ये व्यवस्थितम् | 006c सर्वायुधधरे श्रीमत्यद्भुतोपमदर्शने || 007a मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे | 007c दिव्याश्वयुजि सन्नद्धे काञ्चनेन विभूषिते || 008a ध्वजेन च महाबाहो सोमालङ्कृतलक्ष्मणा | 008c धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान् || 009a सारथ्यं कृतवांस्तत्र युयुत्सोरकृतव्रणः | 009c सखा वेदविदत्यन्तं दयितो भार्गवस्य ह || 010a आह्वयानः स मां युद्धे मनो हर्षयतीव मे | 010c पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः || 011a तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम् | 011c क्षत्रियान्तकरं राममेकमेकः समासदम् || 012a ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै | 012c अवतीर्य धनुर्न्यस्य पदातिरृषिसत्तमम् || 013a अभ्यगच्छं तदा राममर्चिष्यन्द्विजसत्तमम् | 013c अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम् || 014a योत्स्ये त्वया रणे राम विशिष्टेनाधिकेन च | 014c गुरुणा धर्मशीलेन जयमाशास्स्व मे विभो || 015 राम उवाच || 015a एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता | 015c धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम् || 016a शपेयं त्वां न चेदेवमागच्छेथा विशां पते | 016c युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव || 017a न तु ते जयमाशासे त्वां हि जेतुमहं स्थितः | 017c गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते || 018 भीष्म उवाच || 018a ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः | 018c प्राध्मापयं रणे शङ्खं पुनर्हेमविभूषितम् || 019a ततो युद्धं समभवन्मम तस्य च भारत | 019c दिवसान्सुबहून्राजन्परस्परजिगीषया || 020a स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्कपत्रिभिः | 020c षष्ट्या शतैश्च नवभिः शराणामग्निवर्चसाम् || 021a चत्वारस्तेन मे वाहाः सूतश्चैव विशां पते | 021c प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः || 022a नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यश्च भारत | 022c तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् || 023a आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि | 023c भूयस्तु शृणु मे ब्रह्मन्सम्पदं धर्मसङ्ग्रहे || 024a ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत् | 024c तपश्च सुमहत्तप्तं न तेभ्यः प्रहराम्यहम् || 025a प्रहरे क्षत्रधर्मस्य यं त्वं राम समास्थितः | 025c ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात् || 026a पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं च मे | 026c एष ते कार्मुकं वीर द्विधा कुर्मि ससायकम् || 027a तस्याहं निशितं भल्लं प्राहिण्वं भरतर्षभ | 027c तेनास्य धनुषः कोटिश्छिन्ना भूमिमथागमत् || 028a नव चापि पृषत्कानां शतानि नतपर्वणाम् | 028c प्राहिण्वं कङ्कपत्राणां जामदग्न्यरथं प्रति || 029a काये विषक्तास्तु तदा वायुनाभिसमीरिताः | 029c चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः || 030a क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं व्रणैः | 030c बभौ रामस्तदा राजन्मेरुर्धातूनिवोत्सृजन् || 031a हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः | 031c बभौ रामस्तदा राजन्क्वचित्किंशुकसन्निभः || 032a ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः | 032c हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः || 033a ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः | 033c अकम्पयन्महावेगाः सर्पानलविषोपमाः || 034a ततोऽहं समवष्टभ्य पुनरात्मानमाहवे | 034c शतसङ्ख्यैः शरैः क्रुद्धस्तदा राममवाकिरम् || 035a स तैरग्न्यर्कसङ्काशैः शरैराशीविषोपमैः | 035c शितैरभ्यर्दितो रामो मन्दचेता इवाभवत् || 036a ततोऽहं कृपयाविष्टो विनिन्द्यात्मानमात्मना | 036c धिग्धिगित्यब्रुवं युद्धं क्षत्रं च भरतर्षभ || 037a असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः | 037c अहो बत कृतं पापं मयेदं क्षत्रकर्मणा || 038a गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः | 038c ततो न प्राहरं भूयो जामदग्न्याय भारत || 039a अथावताप्य पृथिवीं पूषा दिवससङ्क्षये | 039c जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत् ||