भीष्म उवाच || 001
ततो मामब्रवीद्रामः प्रहसन्निव भारत | 001a
दिष्ट्या भीष्म मया सार्धं योद्धुमिच्छसि सङ्गरे || 001c
अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह | 002a
भाषितं तत्करिष्यामि तत्रागच्छेः परन्तप || 002c
तत्र त्वां निहतं माता मया शरशताचितम् | 003a
जाह्नवी पश्यतां भीष्म गृध्रकङ्कबडाशनम् || 003c
कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता | 004a
मया विनिहतं देवी रोदतामद्य पार्थिव || 004c
अतदर्हा महाभागा भगीरथसुता नदी | 005a
या त्वामजीजनन्मन्दं युद्धकामुकमातुरम् || 005c
एहि गच्छ मया भीष्म युद्धमद्यैव वर्तताम् | 006a
गृहाण सर्वं कौरव्य रथादि भरतर्षभ || 006c
इति ब्रुवाणं तमहं रामं परपुरञ्जयम् | 007a
प्रणम्य शिरसा राजन्नेवमस्त्वित्यथाब्रुवम् || 007c
एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया | 008a
प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम् || 008c
ततः कृतस्वस्त्ययनो मात्रा प्रत्यभिनन्दितः | 009a
द्विजातीन्वाच्य पुण्याहं स्वस्ति चैव महाद्युते || 009c
रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः | 010a
सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम् || 010c
उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम् | 011a
तत्कुलीनेन वीरेण हयशास्त्रविदा नृप || 011c
युक्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा | 012a
दंशितः पाण्डुरेणाहं कवचेन वपुष्मता || 012c
पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम | 013a
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि || 013c
पाण्डुरैश्चामरैश्चापि वीज्यमानो नराधिप | 014a
शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः || 014c
स्तूयमानो जयाशीर्भिर्निष्क्रम्य गजसाह्वयात् | 015a
कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ || 015c
ते हयाश्चोदितास्तेन सूतेन परमाहवे | 016a
अवहन्मां भृशं राजन्मनोमारुतरंहसः || 016c
गत्वाहं तत्कुरुक्षेत्रं स च रामः प्रतापवान् | 017a
युद्धाय सहसा राजन्पराक्रान्तौ परस्परम् || 017c
ततः सन्दर्शनेऽतिष्ठं रामस्यातितपस्विनः | 018a
प्रगृह्य शङ्खप्रवरं ततः प्राधममुत्तमम् || 018c
ततस्तत्र द्विजा राजंस्तापसाश्च वनौकसः | 019a
अपश्यन्त रणं दिव्यं देवाः सर्षिगणास्तदा || 019c
ततो दिव्यानि माल्यानि प्रादुरासन्मुहुर्मुहुः | 020a
वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह || 020c
ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः | 021a
प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम् || 021c
ततो मामब्रवीद्देवी सर्वभूतहितैषिणी | 022a
माता स्वरूपिणी राजन्किमिदं ते चिकीर्षितम् || 022c
गत्वाहं जामदग्न्यं तं प्रयाचिष्ये कुरूद्वह | 023a
भीष्मेण सह मा योत्सीः शिष्येणेति पुनः पुनः || 023c
मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव | 024a
जामदग्न्येन समरे योद्धुमित्यवभर्त्सयत् || 024c
किं न वै क्षत्रियहरो हरतुल्यपराक्रमः | 025a
विदितः पुत्र रामस्ते यतस्त्वं योद्धुमिच्छसि || 025c
ततोऽहमब्रुवं देवीमभिवाद्य कृताञ्जलिः | 026a
सर्वं तद्भरतश्रेष्ठ यथावृत्तं स्वयंवरे || 026c
यथा च रामो राजेन्द्र मया पूर्वं प्रसादितः | 027a
काशिराजसुतायाश्च यथा कामः पुरातनः || 027c
ततः सा राममभ्येत्य जननी मे महानदी | 028a
मदर्थं तमृषिं देवी क्षमयामास भार्गवम् | 028c
भीष्मेण सह मा योत्सीः शिष्येणेति वचोऽब्रवीत् || 028e
स च तामाह याचन्तीं भीष्ममेव निवर्तय | 029a
न हि मे कुरुते काममित्यहं तमुपागमम् || 029c
सञ्जय उवाच || 030
ततो गङ्गा सुतस्नेहाद्भीष्मं पुनरुपागमत् | 030a
न चास्याः सोऽकरोद्वाक्यं क्रोधपर्याकुलेक्षणः || 030c
अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः | 031a
आह्वयामास च पुनर्युद्धाय द्विजसत्तमः || 031c