भीष्म उवाच || 001
ततस्तृतीये दिवसे समे देशे व्यवस्थितः | 001a
प्रेषयामास मे राजन्प्राप्तोऽस्मीति महाव्रतः || 001c
तमागतमहं श्रुत्वा विषयान्तं महाबलम् | 002a
अभ्यगच्छं जवेनाशु प्रीत्या तेजोनिधिं प्रभुम् || 002c
गां पुरस्कृत्य राजेन्द्र ब्राह्मणैः परिवारितः | 003a
ऋत्विग्भिर्देवकल्पैश्च तथैव च पुरोहितैः || 003c
स मामभिगतं दृष्ट्वा जामदग्न्यः प्रतापवान् | 004a
प्रतिजग्राह तां पूजां वचनं चेदमब्रवीत् || 004c
भीष्म कां बुद्धिमास्थाय काशिराजसुता त्वया | 005a
अकामेयमिहानीता पुनश्चैव विसर्जिता || 005c
विभ्रंशिता त्वया हीयं धर्मावाप्तेः परावरात् | 006a
परामृष्टां त्वया हीमां को हि गन्तुमिहार्हति || 006c
प्रत्याख्याता हि शाल्वेन त्वया नीतेति भारत | 007a
तस्मादिमां मन्नियोगात्प्रतिगृह्णीष्व भारत || 007c
स्वधर्मं पुरुषव्याघ्र राजपुत्री लभत्वियम् | 008a
न युक्तमवमानोऽयं कर्तुं राज्ञा त्वयानघ || 008c
ततस्तं नातिमनसं समुदीक्ष्याहमब्रुवम् | 009a
नाहमेनां पुनर्दद्यां भ्रात्रे ब्रह्मन्कथञ्चन || 009c
शाल्वस्याहमिति प्राह पुरा मामिह भार्गव | 010a
मया चैवाभ्यनुज्ञाता गता सौभपुरं प्रति || 010c
न भयान्नाप्यनुक्रोशान्न लोभान्नार्थकाम्यया | 011a
क्षत्रधर्ममहं जह्यामिति मे व्रतमाहितम् || 011c
अथ मामब्रवीद्रामः क्रोधपर्याकुलेक्षणः | 012a
न करिष्यसि चेदेतद्वाक्यं मे कुरुपुङ्गव || 012c
हनिष्यामि सहामात्यं त्वामद्येति पुनः पुनः | 013a
संरम्भादब्रवीद्रामः क्रोधपर्याकुलेक्षणः || 013c
तमहं गीर्भिरिष्टाभिः पुनः पुनररिन्दमम् | 014a
अयाचं भृगुशार्दूलं न चैव प्रशशाम सः || 014c
तमहं प्रणम्य शिरसा भूयो ब्राह्मणसत्तमम् | 015a
अब्रुवं कारणं किं तद्यत्त्वं योद्धुमिहेच्छसि || 015c
इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम् | 016a
उपदिष्टं महाबाहो शिष्योऽस्मि तव भार्गव || 016c
ततो मामब्रवीद्रामः क्रोधसंरक्तलोचनः | 017a
जानीषे मां गुरुं भीष्म न चेमां प्रतिगृह्णसे | 017c
सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते || 017e
न हि ते विद्यते शान्तिरन्यथा कुरुनन्दन | 018a
गृहाणेमां महाबाहो रक्षस्व कुलमात्मनः | 018c
त्वया विभ्रंशिता हीयं भर्तारं नाभिगच्छति || 018e
तथा ब्रुवन्तं तमहं रामं परपुरञ्जयम् | 019a
नैतदेवं पुनर्भावि ब्रह्मर्षे किं श्रमेण ते || 019c
गुरुत्वं त्वयि सम्प्रेक्ष्य जामदग्न्य पुरातनम् | 020a
प्रसादये त्वां भगवंस्त्यक्तैषा हि पुरा मया || 020c
को जातु परभावां हि नारीं व्यालीमिव स्थिताम् | 021a
वासयेत गृहे जानन्स्त्रीणां दोषान्महात्ययान् || 021c
न भयाद्वासवस्यापि धर्मं जह्यां महाद्युते | 022a
प्रसीद मा वा यद्वा ते कार्यं तत्कुरु माचिरम् || 022c
अयं चापि विशुद्धात्मन्पुराणे श्रूयते विभो 023a
मरुत्तेन महाबुद्धे गीतः श्लोको महात्मना || 023c
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः | 024a
उत्पथप्रतिपन्नस्य कार्यं भवति शासनम् || 024c
स त्वं गुरुरिति प्रेम्णा मया सम्मानितो भृशम् | 025a
गुरुवृत्तं न जानीषे तस्माद्योत्स्याम्यहं त्वया || 025c
गुरुं न हन्यां समरे ब्राह्मणं च विशेषतः | 026a
विशेषतस्तपोवृद्धमेवं क्षान्तं मया तव || 026c
उद्यतेषुमथो दृष्ट्वा ब्राह्मणं क्षत्रबन्धुवत् | 027a
यो हन्यात्समरे क्रुद्धो युध्यन्तमपलायिनम् | 027c
ब्रह्महत्या न तस्य स्यादिति धर्मेषु निश्चयः || 027e
क्षत्रियाणां स्थितो धर्मे क्षत्रियोऽस्मि तपोधन | 028a
यो यथा वर्तते यस्मिंस्तथा तस्मिन्प्रवर्तयन् | 028c
नाधर्मं समवाप्नोति नरः श्रेयश्च विन्दति || 028e
अर्थे वा यदि वा धर्मे समर्थो देशकालवित् | 029a
अनर्थसंशयापन्नः श्रेयान्निःसंशयेन च || 029c
यस्मात्संशयितेऽर्थेऽस्मिन्यथान्यायं प्रवर्तसे | 030a
तस्माद्योत्स्यामि सहितस्त्वया राम महाहवे | 030c
पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम् || 030e
एवं गतेऽपि तु मया यच्छक्यं भृगुनन्दन | 031a
तत्करिष्ये कुरुक्षेत्रे योत्स्ये विप्र त्वया सह | 031c
द्वन्द्वे राम यथेष्टं ते सज्जो भव महामुने || 031e
तत्र त्वं निहतो राम मया शरशताचितः | 032a
लप्स्यसे निर्जिताल्ँलोकाञ्शस्त्रपूतो महारणे || 032c
स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय | 033a
तत्रैष्यामि महाबाहो युद्धाय त्वां तपोधन || 033c
अपि यत्र त्वया राम कृतं शौचं पुरा पितुः | 034a
तत्राहमपि हत्वा त्वां शौचं कर्तास्मि भार्गव || 034c
तत्र गच्छस्व राम त्वं त्वरितं युद्धदुर्मद | 035a
व्यपनेष्यामि ते दर्पं पौराणं ब्राह्मणब्रुव || 035c
यच्चापि कत्थसे राम बहुशः परिषत्सु वै | 036a
निर्जिताः क्षत्रिया लोके मयैकेनेति तच्छृणु || 036c
न तदा जायते भीष्मो मद्विधः क्षत्रियोऽपि वा | 037a
यस्ते युद्धमयं दर्पं कामं च व्यपनाशयेत् || 037c
सोऽहं जातो महाबाहो भीष्मः परपुरञ्जयः | 038a
व्यपनेष्यामि ते दर्पं युद्धे राम न संशयः || 038c