भीष्म उवाच || 001
एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो | 001a
उवाच रुदतीं कन्यां चोदयन्तीं पुनः पुनः || 001c
काश्ये कामं न गृह्णामि शस्त्रं वै वरवर्णिनि | 002a
ऋते ब्रह्मविदां हेतोः किमन्यत्करवाणि ते || 002c
वाचा भीष्मश्च शाल्वश्च मम राज्ञि वशानुगौ | 003a
भविष्यतोऽनवद्याङ्गि तत्करिष्यामि मा शुचः || 003c
न तु शस्त्रं ग्रहीष्यामि कथञ्चिदपि भामिनि | 004a
ऋते नियोगाद्विप्राणामेष मे समयः कृतः || 004c
अम्बोवाच || 005
मम दुःखं भगवता व्यपनेयं यतस्ततः | 005a
तत्तु भीष्मप्रसूतं मे तं जहीश्वर माचिरम् || 005c
राम उवाच || 006
काशिकन्ये पुनर्ब्रूहि भीष्मस्ते चरणावुभौ | 006a
शिरसा वन्दनार्होऽपि ग्रहीष्यति गिरा मम || 006c
अम्बोवाच || 007
जहि भीष्मं रणे राम मम चेदिच्छसि प्रियम् | 007a
प्रतिश्रुतं च यदि तत्सत्यं कर्तुमिहार्हसि || 007c
भीष्म उवाच || 008
तयोः संवदतोरेवं राजन्रामाम्बयोस्तदा | 008a
अकृतव्रणो जामदग्न्यमिदं वचनमब्रवीत् || 008c
शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि | 009a
जहि भीष्मं रणे राम गर्जन्तमसुरं यथा || 009c
यदि भीष्मस्त्वयाहूतो रणे राम महामुने | 010a
निर्जितोऽस्मीति वा ब्रूयात्कुर्याद्वा वचनं तव || 010c
कृतमस्या भवेत्कार्यं कन्याया भृगुनन्दन | 011a
वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो || 011c
इयं चापि प्रतिज्ञा ते तदा राम महामुने | 012a
जित्वा वै क्षत्रियान्सर्वान्ब्राह्मणेषु प्रतिश्रुतम् || 012c
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि | 013a
ब्रह्मद्विड्भविता तं वै हनिष्यामीति भार्गव || 013c
शरणं हि प्रपन्नानां भीतानां जीवितार्थिनाम् | 014a
न शक्ष्यामि परित्यागं कर्तुं जीवन्कथञ्चन || 014c
यश्च क्षत्रं रणे कृत्स्नं विजेष्यति समागतम् | 015a
दृप्तात्मानमहं तं च हनिष्यामीति भार्गव || 015c
स एवं विजयी राम भीष्मः कुरुकुलोद्वहः | 016a
तेन युध्यस्व सङ्ग्रामे समेत्य भृगुनन्दन || 016c
राम उवाच || 017
स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम | 017a
तथैव च करिष्यामि यथा साम्नैव लप्स्यते || 017c
कार्यमेतन्महद्ब्रह्मन्काशिकन्यामनोगतम् | 018a
गमिष्यामि स्वयं तत्र कन्यामादाय यत्र सः || 018c
यदि भीष्मो रणश्लाघी न करिष्यति मे वचः | 019a
हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः || 019c
न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम् | 020a
कायेषु विदितं तुभ्यं पुरा क्षत्रियसङ्गरे || 020c
भीष्म उवाच || 021
एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः | 021a
प्रयाणाय मतिं कृत्वा समुत्तस्थौ महामनाः || 021c
ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः | 022a
हुताग्नयो जप्तजप्याः प्रतस्थुर्मज्जिघांसया || 022c
अभ्यगच्छत्ततो रामः सह तैर्ब्राह्मणर्षभैः | 023a
कुरुक्षेत्रं महाराज कन्यया सह भारत || 023c
न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम् | 024a
तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः || 024c