अकृतव्रण उवाच || 001
दुःखद्वयमिदं भद्रे कतरस्य चिकीर्षसि | 001a
प्रतिकर्तव्यमबले तत्त्वं वत्से ब्रवीहि मे || 001c
यदि सौभपतिर्भद्रे नियोक्तव्यो मते तव | 002a
नियोक्ष्यति महात्मा तं रामस्त्वद्धितकाम्यया || 002c
अथापगेयं भीष्मं तं रामेणेच्छसि धीमता | 003a
रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः || 003c
सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते | 004a
यदत्रानन्तरं कार्यं तदद्यैव विचिन्त्यताम् || 004c
अम्बोवाच || 005
अपनीतास्मि भीष्मेण भगवन्नविजानता | 005a
न हि जानाति मे भीष्मो ब्रह्मञ्शाल्वगतं मनः || 005c
एतद्विचार्य मनसा भवानेव विनिश्चयम् | 006a
विचिनोतु यथान्यायं विधानं क्रियतां तथा || 006c
भीष्मे वा कुरुशार्दूले शाल्वराजेऽथ वा पुनः | 007a
उभयोरेव वा ब्रह्मन्यद्युक्तं तत्समाचर || 007c
निवेदितं मया ह्येतद्दुःखमूलं यथातथम् | 008a
विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः || 008c
अकृतव्रण उवाच || 009
उपपन्नमिदं भद्रे यदेवं वरवर्णिनि | 009a
धर्मं प्रति वचो ब्रूयाः शृणु चेदं वचो मम || 009c
यदि त्वामापगेयो वै न नयेद्गजसाह्वयम् | 010a
शाल्वस्त्वां शिरसा भीरु गृह्णीयाद्रामचोदितः || 010c
तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनि | 011a
संशयः शाल्वराजस्य तेन त्वयि सुमध्यमे || 011c
भीष्मः पुरुषमानी च जितकाशी तथैव च | 012a
तस्मात्प्रतिक्रिया युक्ता भीष्मे कारयितुं त्वया || 012c
अम्बोवाच || 013
ममाप्येष महान्ब्रह्मन्हृदि कामोऽभिवर्तते | 013a
घातयेयं यदि रणे भीष्ममित्येव नित्यदा || 013c
भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि | 014a
प्रशाधि तं महाबाहो यत्कृतेऽहं सुदुःखिता || 014c
भीष्म उवाच || 015
एवं कथयतामेव तेषां स दिवसो गतः | 015a
रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता || 015c
ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसा | 016a
शिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः || 016c
धनुष्पाणिरदीनात्मा खड्गं बिभ्रत्परश्वधी | 017a
विरजा राजशार्दूल सोऽभ्ययात्सृञ्जयं नृपम् || 017c
ततस्तं तापसा दृष्ट्वा स च राजा महातपाः | 018a
तस्थुः प्राञ्जलयः सर्वे सा च कन्या तपस्विनी || 018c
पूजयामासुरव्यग्रा मधुपर्केण भार्गवम् | 019a
अर्चितश्च यथायोगं निषसाद सहैव तैः || 019c
ततः पूर्वव्यतीतानि कथयेते स्म तावुभौ | 020a
सृञ्जयश्च स राजर्षिर्जामदग्न्यश्च भारत || 020c
ततः कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम् | 021a
उवाच मधुरं काले रामं वचनमर्थवत् || 021c
रामेयं मम दौहित्री काशिराजसुता प्रभो | 022a
अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद || 022c
परमं कथ्यतां चेति तां रामः प्रत्यभाषत | 023a
ततः साभ्यगमद्रामं ज्वलन्तमिव पावकम् || 023c
सा चाभिवाद्य चरणौ रामस्य शिरसा शुभा | 024a
स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता || 024c
रुरोद सा शोकवती बाष्पव्याकुललोचना | 025a
प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् || 025c
राम उवाच || 026
यथासि सृञ्जयस्यास्य तथा मम नृपात्मजे | 026a
ब्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव || 026c
अम्बोवाच || 027
भगवञ्शरणं त्वाद्य प्रपन्नास्मि महाव्रत | 027a
शोकपङ्कार्णवाद्घोरादुद्धरस्व च मां विभो || 027c
भीष्म उवाच || 028
तस्याश्च दृष्ट्वा रूपं च वयश्चाभिनवं पुनः | 028a
सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत् || 028c
किमियं वक्ष्यतीत्येवं विमृशन्भृगुसत्तमः | 029a
इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः || 029c
कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता | 030a
सर्वमेव यथातत्त्वं कथयामास भार्गवे || 030c
तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदा | 031a
उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् || 031c
प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि | 032a
करिष्यति वचो धर्म्यं श्रुत्वा मे स नराधिपः || 032c
न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः | 033a
धक्ष्याम्येनं रणे भद्रे सामात्यं शस्त्रतेजसा || 033c
अथ वा ते मतिस्तत्र राजपुत्रि निवर्तते | 034a
तावच्छाल्वपतिं वीरं योजयाम्यत्र कर्मणि || 034c
अम्बोवाच || 035
विसर्जितास्मि भीष्मेण श्रुत्वैव भृगुनन्दन | 035a
शाल्वराजगतं चेतो मम पूर्वं मनीषितम् || 035c
सौभराजमुपेत्याहमब्रुवं दुर्वचं वचः | 036a
न च मां प्रत्यगृह्णात्स चारित्रपरिशङ्कितः || 036c
एतत्सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन | 037a
यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि || 037c
ममात्र व्यसनस्यास्य भीष्मो मूलं महाव्रतः | 038a
येनाहं वशमानीता समुत्क्षिप्य बलात्तदा || 038c
भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम् | 039a
प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम् || 039c
स हि लुब्धश्च मानी च जितकाशी च भार्गव | 040a
तस्मात्प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयानघ || 040c
एष मे ह्रियमाणाया भारतेन तदा विभो | 041a
अभवद्धृदि सङ्कल्पो घातयेयं महाव्रतम् || 041c
तस्मात्कामं ममाद्येमं राम संवर्तयानघ | 042a
जहि भीष्मं महाबाहो यथा वृत्रं पुरन्दरः || 042c