होत्रवाहन उवाच || 001
रामं द्रक्ष्यसि वत्से त्वं जामदग्न्यं महावने | 001a
उग्रे तपसि वर्तन्तं सत्यसन्धं महाबलम् || 001c
महेन्द्रे वै गिरिश्रेष्ठे रामं नित्यमुपासते | 002a
ऋषयो वेदविदुषो गन्धर्वाप्सरसस्तथा || 002c
तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम | 003a
अभिवाद्य पूर्वं शिरसा तपोवृद्धं दृढव्रतम् || 003c
ब्रूयाश्चैनं पुनर्भद्रे यत्ते कार्यं मनीषितम् | 004a
मयि सङ्कीर्तिते रामः सर्वं तत्ते करिष्यति || 004c
मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे | 005a
जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः || 005c
एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने | 006a
अकृतव्रणः प्रादुरासीद्रामस्यानुचरः प्रियः || 006c
ततस्ते मुनयः सर्वे समुत्तस्थुः सहस्रशः | 007a
स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः || 007c
ततः पृष्ट्वा यथान्यायमन्योन्यं ते वनौकसः | 008a
सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम् || 008c
ततस्ते कथयामासुः कथास्तास्ता मनोरमाः | 009a
कान्ता दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः || 009c
ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः | 010a
रामं श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम् || 010c
क्व सम्प्रति महाबाहो जामदग्न्यः प्रतापवान् | 011a
अकृतव्रण शक्यो वै द्रष्टुं वेदविदां वरः || 011c
अकृतव्रण उवाच || 012
भवन्तमेव सततं रामः कीर्तयति प्रभो | 012a
सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव || 012c
इह रामः प्रभाते श्वो भवितेति मतिर्मम | 013a
द्रष्टास्येनमिहायान्तं तव दर्शनकाङ्क्षया || 013c
इयं च कन्या राजर्षे किमर्थं वनमागता | 014a
कस्य चेयं तव च का भवतीच्छामि वेदितुम् || 014c
होत्रवाहन उवाच || 015
दौहित्रीयं मम विभो काशिराजसुता शुभा | 015a
ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ || 015c
इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता | 016a
अम्बिकाम्बालिके त्वन्ये यवीयस्यौ तपोधन || 016c
समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत् | 017a
कन्यानिमित्तं ब्रह्मर्षे तत्रासीदुत्सवो महान् || 017c
ततः किल महावीर्यो भीष्मः शान्तनवो नृपान् | 018a
अवाक्षिप्य महातेजास्तिस्रः कन्या जहार ताः || 018c
निर्जित्य पृथिवीपालानथ भीष्मो गजाह्वयम् | 019a
आजगाम विशुद्धात्मा कन्याभिः सह भारत || 019c
सत्यवत्यै निवेद्याथ विवाहार्थमनन्तरम् | 020a
भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः || 020c
ततो वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम् | 021a
अब्रवीत्तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ || 021c
मया शाल्वपतिर्वीर मनसाभिवृतः पतिः | 022a
न मामर्हसि धर्मज्ञ परचित्तां प्रदापितुम् || 022c
तच्छ्रुत्वा वचनं भीष्मः सम्मन्त्र्य सह मन्त्रिभिः | 023a
निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः || 023c
अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः | 024a
कन्येयं मुदिता विप्र काले वचनमब्रवीत् || 024c
विसर्जितास्मि भीष्मेण धर्मं मां प्रतिपादय | 025a
मनसाभिवृतः पूर्वं मया त्वं पार्थिवर्षभ || 025c
प्रत्याचख्यौ च शाल्वोऽपि चारित्रस्याभिशङ्कितः | 026a
सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम् || 026c
मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात् | 027a
अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते || 027c
अम्बोवाच || 028
भगवन्नेवमेवैतद्यथाह पृथिवीपतिः | 028a
शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः || 028c
न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन | 029a
अवमानभयाच्चैव व्रीडया च महामुने || 029c
यत्तु मां भगवान्रामो वक्ष्यति द्विजसत्तम | 030a
तन्मे कार्यतमं कार्यमिति मे भगवन्मतिः || 030c