भीष्म उवाच || 001
ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा | 001a
तां कन्यां चिन्तयन्तो वै किं कार्यमिति धर्मिणः || 001c
केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः | 002a
केचिदस्मदुपालम्भे मतिं चक्रुर्द्विजोत्तमाः || 002c
केचिच्छाल्वपतिं गत्वा नियोज्यमिति मेनिरे | 003a
नेति केचिद्व्यवस्यन्ति प्रत्याख्याता हि तेन सा || 003c
एवं गते किं नु शक्यं भद्रे कर्तुं मनीषिभिः | 004a
पुनरूचुश्च ते सर्वे तापसाः संशितव्रताः || 004c
अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः | 005a
इतो गच्छस्व भद्रं ते पितुरेव निवेशनम् || 005c
प्रतिपत्स्यति राजा स पिता ते यदनन्तरम् | 006a
तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता | 006c
न च तेऽन्या गतिर्न्याय्या भवेद्भद्रे यथा पिता || 006e
पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि | 007a
गतिः पतिः समस्थाया विषमे तु पिता गतिः || 007c
प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः | 008a
राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि || 008c
भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि | 009a
आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे || 009c
ततस्तु तेऽब्रुवन्वाक्यं ब्राह्मणास्तां तपस्विनीम् | 010a
त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने | 010c
प्रार्थयिष्यन्ति राजेन्द्रास्तस्मान्मैवं मनः कृथाः || 010e
अम्बोवाच || 011
न शक्यं काशिनगरीं पुनर्गन्तुं पितुर्गृहान् | 011a
अवज्ञाता भविष्यामि बान्धवानां न संशयः || 011c
उषिता ह्यन्यथा बाल्ये पितुर्वेश्मनि तापसाः | 012a
नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम | 012c
तपस्तप्तुमभीप्सामि तापसैः परिपालिता || 012e
यथा परेऽपि मे लोके न स्यादेवं महात्ययः | 013a
दौर्भाग्यं ब्राह्मणश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः || 013c
भीष्म उवाच || 014
इत्येवं तेषु विप्रेषु चिन्तयत्सु तथा तथा | 014a
राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः || 014c
ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम् | 015a
पूजाभिः स्वागताद्याभिरासनेनोदकेन च || 015c
तस्योपविष्टस्य ततो विश्रान्तस्योपशृण्वतः | 016a
पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः || 016c
अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत | 017a
स वेपमान उत्थाय मातुरस्याः पिता तदा | 017c
तां कन्यामङ्कमारोप्य पर्याश्वासयत प्रभो || 017e
स तामपृच्छत्कार्त्स्न्येन व्यसनोत्पत्तिमादितः | 018a
सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् || 018c
ततः स राजर्षिरभूद्दुःखशोकसमन्वितः | 019a
कार्यं च प्रतिपेदे तन्मनसा सुमहातपाः || 019c
अब्रवीद्वेपमानश्च कन्यामार्तां सुदुःखितः | 020a
मा गाः पितृगृहं भद्रे मातुस्ते जनको ह्यहम् || 020c
दुःखं छेत्स्यामि तेऽहं वै मयि वर्तस्व पुत्रिके | 021a
पर्याप्तं ते मनः पुत्रि यदेवं परिशुष्यसि || 021c
गच्छ मद्वचनाद्रामं जामदग्न्यं तपस्विनम् | 022a
रामस्तव महद्दुःखं शोकं चापनयिष्यति | 022c
हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः || 022e
तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम् | 023a
प्रतिष्ठापयिता स त्वां समे पथि महातपाः || 023c
ततस्तु सस्वरं बाष्पमुत्सृजन्ती पुनः पुनः | 024a
अब्रवीत्पितरं मातुः सा तदा होत्रवाहनम् || 024c
अभिवादयित्वा शिरसा गमिष्ये तव शासनात् | 025a
अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम् || 025c
कथं च तीव्रं दुःखं मे हनिष्यति स भार्गवः | 026a
एतदिच्छाम्यहं श्रोतुमथ यास्यामि तत्र वै || 026c