भीष्म उवाच || 001
सा निष्क्रमन्ती नगराच्चिन्तयामास भारत | 001a
पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया | 001c
बान्धवैर्विप्रहीनास्मि शाल्वेन च निराकृता || 001e
न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम् | 002a
अनुज्ञातास्मि भीष्मेण शाल्वमुद्दिश्य कारणम् || 002c
किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम् | 003a
आहो स्वित्पितरं मूढं यो मेऽकार्षीत्स्वयंवरम् || 003c
ममायं स्वकृतो दोषो याहं भीष्मरथात्तदा | 004a
प्रवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा | 004c
तस्येयं फलनिर्वृत्तिर्यदापन्नास्मि मूढवत् || 004e
धिग्भीष्मं धिक्च मे मन्दं पितरं मूढचेतसम् | 005a
येनाहं वीर्यशुल्केन पण्यस्त्रीवत्प्रवेरिता || 005c
धिङ्मां धिक्शाल्वराजानं धिग्धातारमथापि च | 006a
येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम् || 006c
सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः | 007a
अनयस्यास्य तु मुखं भीष्मः शान्तनवो मम || 007c
सा भीष्मे प्रतिकर्तव्यमहं पश्यामि साम्प्रतम् | 008a
तपसा वा युधा वापि दुःखहेतुः स मे मतः | 008c
को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः || 008e
एवं सा परिनिश्चित्य जगाम नगराद्बहिः | 009a
आश्रमं पुण्यशीलानां तापसानां महात्मनाम् | 009c
ततस्तामवसद्रात्रिं तापसैः परिवारिता || 009e
आचख्यौ च यथा वृत्तं सर्वमात्मनि भारत | 010a
विस्तरेण महाबाहो निखिलेन शुचिस्मिता | 010c
हरणं च विसर्गं च शाल्वेन च विसर्जनम् || 010e
ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतः | 011a
शैखावत्यस्तपोवृद्धः शास्त्रे चारण्यके गुरुः || 011c
आर्तां तामाह स मुनिः शैखावत्यो महातपाः | 012a
निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम् || 012c
एवं गते किं नु भद्रे शक्यं कर्तुं तपस्विभिः | 013a
आश्रमस्थैर्महाभागैस्तपोनित्यैर्महात्मभिः || 013c
सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः | 014a
प्रव्राजितुमिहेच्छामि तपस्तप्स्यामि दुश्चरम् || 014c
मयैवैतानि कर्माणि पूर्वदेहेषु मूढया | 015a
कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम् || 015c
नोत्सहेयं पुनर्गन्तुं स्वजनं प्रति तापसाः | 016a
प्रत्याख्याता निरानन्दा शाल्वेन च निराकृता || 016c
उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः | 017a
युष्माभिर्देवसङ्काशाः कृपा भवतु वो मयि || 017c
स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः | 018a
सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह || 018c