भीष्म उवाच || 001
ततोऽहं समनुज्ञाप्य कालीं सत्यवतीं तदा | 001a
मन्त्रिणश्च द्विजांश्चैव तथैव च पुरोहितान् | 001c
समनुज्ञासिषं कन्यां ज्येष्ठामम्बां नराधिप || 001e
अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम् | 002a
वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा | 002c
अतीत्य च तमध्वानमाससाद नराधिपम् || 002e
सा तमासाद्य राजानं शाल्वं वचनमब्रवीत् | 003a
आगताहं महाबाहो त्वामुद्दिश्य महाद्युते || 003c
तामब्रवीच्छाल्वपतिः स्मयन्निव विशां पते | 004a
त्वयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि || 004c
गच्छ भद्रे पुनस्तत्र सकाशं भारतस्य वै | 005a
नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै || 005c
त्वं हि निर्जित्य भीष्मेण नीता प्रीतिमती तदा | 006a
परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन् | 006c
नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि || 006e
कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत् | 007a
नारीं विदितविज्ञानः परेषां धर्ममादिशन् | 007c
यथेष्टं गम्यतां भद्रे मा ते कालोऽत्यगादयम् || 007e
अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता | 008a
मैवं वद महीपाल नैतदेवं कथञ्चन || 008c
नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन | 009a
बलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन् || 009c
भजस्व मां शाल्वपते भक्तां बालामनागसम् | 010a
भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते || 010c
साहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम् | 011a
अनुज्ञाता च तेनैव तवैव गृहमागता || 011c
न स भीष्मो महाबाहुर्मामिच्छति विशां पते | 012a
भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया || 012c
भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप | 013a
प्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे || 013c
यथा शाल्वपते नान्यं नरं ध्यामि कथञ्चन | 014a
त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे || 014c
न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता | 015a
सत्यं ब्रवीमि शाल्वैतत्सत्येनात्मानमालभे || 015c
भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम् | 016a
अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम् || 016c
तामेवं भाषमाणां तु शाल्वः काशिपतेः सुताम् | 017a
अत्यजद्भरतश्रेष्ठ त्वचं जीर्णामिवोरगः || 017c
एवं बहुविधैर्वाक्यैर्याच्यमानस्तयानघ | 018a
नाश्रद्दधच्छाल्वपतिः कन्याया भरतर्षभ || 018c
ततः सा मन्युनाविष्टा ज्येष्ठा काशिपतेः सुता | 019a
अब्रवीत्साश्रुनयना बाष्पविह्वलया गिरा || 019c
त्वया त्यक्ता गमिष्यामि यत्र यत्र विशां पते | 020a
तत्र मे सन्तु गतयः सन्तः सत्यं यथाब्रुवम् || 020c
एवं सम्भाषमाणां तु नृशंसः शाल्वराट्तदा | 021a
पर्यत्यजत कौरव्य करुणं परिदेवतीम् || 021c
गच्छ गच्छेति तां शाल्वः पुनः पुनरभाषत | 022a
बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः || 022c
एवमुक्ता तु सा तेन शाल्वेनादीर्घदर्शिना | 023a
निश्चक्राम पुराद्दीना रुदती कुररी यथा || 023c