भीष्म उवाच || 001
ततोऽहं भरतश्रेष्ठ मातरं वीरमातरम् | 001a
अभिगम्योपसङ्गृह्य दाशेयीमिदमब्रुवम् || 001c
इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान् | 002a
विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः || 002c
ततो मूर्धन्युपाघ्राय पर्यश्रुनयना नृप | 003a
आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं त्वया || 003c
सत्यवत्यास्त्वनुमते विवाहे समुपस्थिते | 004a
उवाच वाक्यं सव्रीडा ज्येष्ठा काशिपतेः सुता || 004c
भीष्म त्वमसि धर्मज्ञः सर्वशास्त्रविशारदः | 005a
श्रुत्वा च धर्म्यं वचनं मह्यं कर्तुमिहार्हसि || 005c
मया शाल्वपतिः पूर्वं मनसाभिवृतो वरः | 006a
तेन चास्मि वृता पूर्वं रहस्यविदिते पितुः || 006c
कथं मामन्यकामां त्वं राजञ्शास्त्रमधीत्य वै | 007a
वासयेथा गृहे भीष्म कौरवः सन्विशेषतः || 007c
एतद्बुद्ध्या विनिश्चित्य मनसा भरतर्षभ | 008a
यत्क्षमं ते महाबाहो तदिहारब्धुमर्हसि || 008c
स मां प्रतीक्षते व्यक्तं शाल्वराजो विशां पते | 009a
कृपां कुरु महाबाहो मयि धर्मभृतां वर | 009c
त्वं हि सत्यव्रतो वीर पृथिव्यामिति नः श्रुतम् || 009e