दुर्योधन उवाच || 001
किमर्थं भरतश्रेष्ठ न हन्यास्त्वं शिखण्डिनम् 001a
उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम् 001c
पूर्वमुक्त्वा महाबाहो पाण्डवान्सह सोमकैः 002a
वधिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह 002c
भीष्म उवाच || 003
शृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः 003a
यदर्थं युधि सम्प्रेक्ष्य नाहं हन्यां शिखण्डिनम् 003c
महाराजो मम पिता शन्तनुर्भरतर्षभः 004a
दिष्टान्तं प्राप धर्मात्मा समये पुरुषर्षभ 004c
ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन् 005a
चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यषेचयम् 005c
तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः 006a
विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि 006c
मयाभिषिक्तो राजेन्द्र यवीयानपि धर्मतः 007a
विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत 007c
तस्य दारक्रियां तात चिकीर्षुरहमप्युत 008a
अनुरूपादिव कुलादिति चिन्त्य मनो दधे 008c
तथाश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे 009a
रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा 009c
अम्बा चैवाम्बिका चैव तथैवाम्बालिकापरा 009e
राजानश्च समाहूताः पृथिव्यां भरतर्षभ 010a
अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा 010c
अम्बालिका च राजेन्द्र राजकन्या यवीयसी 010e
सोऽहमेकरथेनैव गतः काशिपतेः पुरीम् 011a
अपश्यं ता महाबाहो तिस्रः कन्याः स्वलङ्कृताः 011c
राज्ञश्चैव समावृत्तान्पार्थिवान्पृथिवीपते 011e
ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान् 012a
रथमारोपयां चक्रे कन्यास्ता भरतर्षभ 012c
वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा 013a
अवोचं पार्थिवान्सर्वानहं तत्र समागतान् 013c
भीष्मः शान्तनवः कन्या हरतीति पुनः पुनः 013e
ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः 014a
प्रसह्य हि नयाम्येष मिषतां वो नराधिपाः 014c
ततस्ते पृथिवीपालाः समुत्पेतुरुदायुधाः 015a
योगो योग इति क्रुद्धाः सारथींश्चाप्यचोदयन् 015c
ते रथैर्मेघसङ्काशैर्गजैश्च गजयोधिनः 016a
पृष्ठ्यैश्चाश्वैर्महीपालाः समुत्पेतुरुदायुधाः 016c
ततस्ते मां महीपालाः सर्व एव विशां पते 017a
रथव्रातेन महता सर्वतः पर्यवारयन् || 017c
तानहं शरवर्षेण महता प्रत्यवारयम् | 018a
सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान् || 018c
तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान् | 019a
एकैकेन हि बाणेन भूमौ पातितवानहम् || 019c
हयांश्चैषां गजांश्चैव सारथींश्चाप्यहं रणे | 020a
अपातयं शरैर्दीप्तैः प्रहसन्पुरुषर्षभ || 020c
ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम | 021a
अथाहं हास्तिनपुरमायां जित्वा महीक्षितः || 021c
अतोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत | 022a
तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम् || 022c