भीष्म उवाच || 001
रोचमानो महाराज पाण्डवानां महारथः | 001a
योत्स्यतेऽमरवत्सङ्ख्ये परसैन्येषु भारत || 001c
पुरुजित्कुन्तिभोजश्च महेष्वासो महाबलः | 002a
मातुलो भीमसेनस्य स च मेऽतिरथो मतः || 002c
एष वीरो महेष्वासः कृती च निपुणश्च ह | 003a
चित्रयोधी च शक्तश्च मतो मे रथपुङ्गवः || 003c
स योत्स्यति हि विक्रम्य मघवानिव दानवैः | 004a
योधाश्चास्य परिख्याताः सर्वे युद्धविशारदाः || 004c
भागिनेयकृते वीरः स करिष्यति सङ्गरे | 005a
सुमहत्कर्म पाण्डूनां स्थितः प्रियहिते नृपः || 005c
भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः | 006a
मतो मे बहुमायावी रथयूथपयूथपः || 006c
योत्स्यते समरे तात मायाभिः समरप्रियः | 007a
ये चास्य राक्षसाः शूराः सचिवा वशवर्तिनः || 007c
एते चान्ये च बहवो नानाजनपदेश्वराः | 008a
समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः || 008c
एते प्राधान्यतो राजन्पाण्डवस्य महात्मनः | 009a
रथाश्चातिरथाश्चैव ये चाप्यर्धरथा मताः || 009c
नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप | 010a
महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना || 010c
तैरहं समरे वीर त्वामायद्भिर्जयैषिभिः | 011a
योत्स्यामि जयमाकाङ्क्षन्नथ वा निधनं रणे || 011c
पार्थं च वासुदेवं च चक्रगाण्डीवधारिणौ | 012a
सन्ध्यागताविवार्केन्दू समेष्ये पुरुषोत्तमौ || 012c
ये चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः | 013a
सहसैन्यानहं तांश्च प्रतीयां रणमूर्धनि || 013c
एते रथाश्चातिरथाश्च तुभ्यं यथाप्रधानं नृप कीर्तिता मया | 014a
तथा राजन्नर्धरथाश्च केचित्तथैव तेषामपि कौरवेन्द्र || 014c
अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः | 015a
सर्वानावारयिष्यामि यावद्द्रक्ष्यामि भारत || 015c
पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम् | 016a
उद्यतेषुमभिप्रेक्ष्य प्रतियुध्यन्तमाहवे || 016c
लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया | 017a
प्राप्तं राज्यं परित्यज्य ब्रह्मचर्ये धृतव्रतः || 017c
चित्राङ्गदं कौरवाणामहं राज्येऽभ्यषेचयम् | 018a
विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम् || 018c
देवव्रतत्वं विख्याप्य पृथिव्यां सर्वराजसु | 019a
नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कथञ्चन || 019c
स हि स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः | 020a
कन्या भूत्वा पुमाञ्जातो न योत्स्ये तेन भारत || 020c
सर्वांस्त्वन्यान्हनिष्यामि पार्थिवान्भरतर्षभ | 021a
यान्समेष्यामि समरे न तु कुन्तीसुतान्नृप || 021c