भीष्म उवाच || 001
पाञ्चालराजस्य सुतो राजन्परपुरञ्जयः | 001a
शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत || 001c
एष योत्स्यति सङ्ग्रामे नाशयन्पूर्वसंस्थितिम् | 002a
परं यशो विप्रथयंस्तव सेनासु भारत || 002c
एतस्य बहुलाः सेनाः पाञ्चालाश्च प्रभद्रकाः | 003a
तेनासौ रथवंशेन महत्कर्म करिष्यति || 003c
धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत | 004a
मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः || 004c
एष योत्स्यति सङ्ग्रामे सूदयन्वै परान्रणे | 005a
भगवानिव सङ्क्रुद्धः पिनाकी युगसङ्क्षये || 005c
एतस्य तद्रथानीकं कथयन्ति रणप्रियाः | 006a
बहुत्वात्सागरप्रख्यं देवानामिव संयुगे || 006c
क्षत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप | 007a
धृष्टद्युम्नस्य तनयो बाल्यान्नातिकृतश्रमः || 007c
शिशुपालसुतो वीरश्चेदिराजो महारथः | 008a
धृष्टकेतुर्महेष्वासः सम्बन्धी पाण्डवस्य ह || 008c
एष चेदिपतिः शूरः सह पुत्रेण भारत | 009a
महारथेनासुकरं महत्कर्म करिष्यति || 009c
क्षत्रधर्मरतो मह्यं मतः परपुरञ्जयः | 010a
क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः | 010c
जयन्तश्चामितौजाश्च सत्यजिच्च महारथः || 010e
महारथा महात्मानः सर्वे पाञ्चालसत्तमाः | 011a
योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः || 011c
अजो भोजश्च विक्रान्तौ पाण्डवेषु महारथौ | 012a
पाण्डवानां सहायार्थे परं शक्त्या यतिष्यतः | 012c
शीघ्रास्त्रौ चित्रयोद्धारौ कृतिनौ दृढविक्रमौ || 012e
केकयाः पञ्च राजेन्द्र भ्रातरो युद्धदुर्मदाः | 013a
सर्व एते रथोदाराः सर्वे लोहितकध्वजाः || 013c
काशिकः सुकुमारश्च नीलो यश्चापरो नृपः | 014a
सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः || 014c
सर्व एते रथोदाराः सर्वे चाहवलक्षणाः | 015a
सर्वास्त्रविदुषः सर्वे महात्मानो मता मम || 015c
वार्धक्षेमिर्महाराज रथो मम महान्मतः | 016a
चित्रायुधश्च नृपतिर्मतो मे रथसत्तमः | 016c
स हि सङ्ग्रामशोभी च भक्तश्चापि किरीटिनः || 016e
चेकितानः सत्यधृतिः पाण्डवानां महारथौ | 017a
द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम || 017c
व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत | 018a
मतौ मम रथोदारौ पाण्डवानां न संशयः || 018c
सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः | 019a
यः समो वासुदेवेन भीमसेनेन चाभिभूः | 019c
स योत्स्यतीह विक्रम्य समरे तव सैनिकैः || 019e
मां द्रोणं च कृपं चैव यथा सम्मन्यते भवान् | 020a
तथा स समरश्लाघी मन्तव्यो रथसत्तमः || 020c
काश्यः परमशीघ्रास्त्रः श्लाघनीयो रथोत्तमः | 021a
रथ एकगुणो मह्यं मतः परपुरञ्जयः || 021c
अयं च युधि विक्रान्तो मन्तव्योऽष्टगुणो रथः | 022a
सत्यजित्समरश्लाघी द्रुपदस्यात्मजो युवा || 022c
गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन सम्मितः | 023a
पाण्डवानां यशस्कामः परं कर्म करिष्यति || 023c
अनुरक्तश्च शूरश्च रथोऽयमपरो महान् | 024a
पाण्ड्यराजो महावीर्यः पाण्डवानां धुरन्धरः || 024c
दृढधन्वा महेष्वासः पाण्डवानां रथोत्तमः | 025a
श्रेणिमान्कौरवश्रेष्ठ वसुदानश्च पार्थिवः | 025c
उभावेतावतिरथौ मतौ मम परन्तप || 025e