भीष्म उवाच || 001
द्रौपदेया महाराज सर्वे पञ्च महारथाः | 001a
वैराटिरुत्तरश्चैव रथो मम महान्मतः || 001c
अभिमन्युर्महाराज रथयूथपयूथपः | 002a
समः पार्थेन समरे वासुदेवेन वा भवेत् || 002c
लघ्वस्त्रश्चित्रयोधी च मनस्वी दृढविक्रमः | 003a
संस्मरन्वै परिक्लेशं स्वपितुर्विक्रमिष्यति || 003c
सात्यकिर्माधवः शूरो रथयूथपयूथपः | 004a
एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः || 004c
उत्तमौजास्तथा राजन्रथो मम महान्मतः | 005a
युधामन्युश्च विक्रान्तो रथोदारो नरर्षभः || 005c
एतेषां बहुसाहस्रा रथा नागा हयास्तथा | 006a
योत्स्यन्ते ते तनुं त्यक्त्वा कुन्तीपुत्रप्रियेप्सया || 006c
पाण्डवैः सह राजेन्द्र तव सेनासु भारत | 007a
अग्निमारुतवद्राजन्नाह्वयन्तः परस्परम् || 007c
अजेयौ समरे वृद्धौ विराटद्रुपदावुभौ | 008a
महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ || 008c
वयोवृद्धावपि तु तौ क्षत्रधर्मपरायणौ | 009a
यतिष्येते परं शक्त्या स्थितौ वीरगते पथि || 009c
सम्बन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात् | 010a
आर्यवृत्तौ महेष्वासौ स्नेहपाशसितावुभौ || 010c
कारणं प्राप्य तु नराः सर्व एव महाभुजाः | 011a
शूरा वा कातरा वापि भवन्ति नरपुङ्गव || 011c
एकायनगतावेतौ पार्थेन दृढभक्तिकौ | 012a
त्यक्त्वा प्राणान्परं शक्त्या घटितारौ नराधिप || 012c
पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ | 013a
सम्बन्धिभावं रक्षन्तौ महत्कर्म करिष्यतः || 013c
लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत | 014a
प्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः || 014c