भीष्म उवाच || 001
समुद्यतोऽयं भारो मे सुमहान्सागरोपमः | 001a
धार्तराष्ट्रस्य सङ्ग्रामे वर्षपूगाभिचिन्तितः || 001c
तस्मिन्नभ्यागते काले प्रतप्ते लोमहर्षणे | 002a
मिथोभेदो न मे कार्यस्तेन जीवसि सूतज || 002c
न ह्यहं नाद्य विक्रम्य स्थविरोऽपि शिशोस्तव | 003a
युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज || 003c
जामदग्न्येन रामेण महास्त्राणि प्रमुञ्चता | 004a
न मे व्यथाभवत्काचित्त्वं तु मे किं करिष्यसि || 004c
कामं नैतत्प्रशंसन्ति सन्तोऽऽत्मबलसंस्तवम् | 005a
वक्ष्यामि तु त्वां सन्तप्तो निहीन कुलपांसन || 005c
समेतं पार्थिवं क्षत्रं काशिराज्ञः स्वयंवरे | 006a
निर्जित्यैकरथेनैव यत्कन्यास्तरसा हृताः || 006c
ईदृशानां सहस्राणि विशिष्टानामथो पुनः | 007a
मयैकेन निरस्तानि ससैन्यानि रणाजिरे || 007c
त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान् | 008a
उपस्थितो विनाशाय यतस्व पुरुषो भव || 008c
युध्यस्व पार्थं समरे येन विस्पर्धसे सह | 009a
द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते || 009c
सञ्जय उवाच || 010
तमुवाच ततो राजा धार्तराष्ट्रो महामनाः | 010a
मामवेक्षस्व गाङ्गेय कार्यं हि महदुद्यतम् || 010c
चिन्त्यतामिदमेवाग्रे मम निःश्रेयसं परम् | 011a
उभावपि भवन्तौ मे महत्कर्म करिष्यतः || 011c
भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान् | 012a
ये चैवातिरथास्तत्र तथैव रथयूथपाः || 012c
बलाबलममित्राणां श्रोतुमिच्छामि कौरव | 013a
प्रभातायां रजन्यां वै इदं युद्धं भविष्यति || 013c
भीष्म उवाच || 014
एते रथास्ते सङ्ख्यातास्तथैवातिरथा नृप | 014a
य चाप्यर्धरथा राजन्पाण्डवानामतः शृणु || 014c
यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप | 015a
रथसङ्ख्यां महाबाहो सहैभिर्वसुधाधिपैः || 015c
स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः | 016a
अग्निवत्समरे तात चरिष्यति न संशयः || 016c
भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसम्मितः | 017a
नागायुतबलो मानी तेजसा न स मानुषः || 017c
माद्रीपुत्रौ तु रथिनौ द्वावेव पुरुषर्षभौ | 018a
अश्विनाविव रूपेण तेजसा च समन्वितौ || 018c
एते चमूमुखगताः स्मरन्तः क्लेशमात्मनः | 019a
रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः || 019c
सर्व एव महात्मानः शालस्कन्धा इवोद्गताः | 020a
प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः || 020c
सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः | 021a
चरितब्रह्मचर्याश्च सर्वे चातितपस्विनः || 021c
ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः | 022a
जवे प्रहारे सम्मर्दे सर्व एवातिमानुषाः | 022c
सर्वे जितमहीपाला दिग्जये भरतर्षभ || 022e
न चैषां पुरुषाः केचिदायुधानि गदाः शरान् | 023a
विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव | 023c
उद्यन्तुं वा गदां गुर्वीं शरान्वापि प्रकर्षितुम् || 023e
जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे | 024a
बालैरपि भवन्तस्तैः सर्व एव विशेषिताः || 024c
ते ते सैन्यं समासाद्य व्याघ्रा इव बलोत्कटाः | 025a
विध्वंसयिष्यन्ति रणे मा स्म तैः सह सङ्गमः || 025c
एकैकशस्ते सङ्ग्रामे हन्युः सर्वान्महीक्षितः | 026a
प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् || 026c
द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः | 027a
ते संस्मरन्तः सङ्ग्रामे विचरिष्यन्ति कालवत् || 027c
लोहिताक्षो गुडाकेशो नारायणसहायवान् | 028a
उभयोः सेनयोर्वीर रथो नास्तीह तादृशः || 028c
न हि देवेषु वा पूर्वं दानवेषूरगेषु वा | 029a
राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु || 029c
भूतोऽथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः | 030a
समायुक्तो महाराज यथा पार्थस्य धीमतः || 030c
वासुदेवश्च संयन्ता योद्धा चैव धनञ्जयः | 031a
गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः || 031c
अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी | 032a
अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एव च || 032c
याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः | 033a
वज्रादीनि च मुख्यानि नानाप्रहरणानि वै || 033c
दानवानां सहस्राणि हिरण्यपुरवासिनाम् | 034a
हतान्येकरथेनाजौ कस्तस्य सदृशो रथः || 034c
एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमः | 035a
तव सेनां महाबाहुः स्वां चैव परिपालयन् || 035c
अहं चैनं प्रत्युदियामाचार्यो वा धनञ्जयम् | 036a
न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि | 036c
य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी || 036e
जीमूत इव घर्मान्ते महावातसमीरितः | 037a
समायुक्तस्तु कौन्तेयो वासुदेवसहायवान् | 037c
तरुणश्च कृती चैव जीर्णावावामुभावपि || 037e
सञ्जय उवाच || 038
एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा | 038a
काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः || 038c
मनोभिः सह सावेगैः संस्मृत्य च पुरातनम् | 039a
सामर्थ्यं पाण्डवेयानां यथाप्रत्यक्षदर्शनात् || 039c