भीष्म उवाच || 001
अचलो वृषकश्चैव भ्रातरौ सहितावुभौ | 001a
रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः || 001c
बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ | 002a
गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ || 002c
सखा ते दयितो नित्यं य एष रणकर्कशः | 003a
प्रोत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह || 003c
परुषः कत्थनो नीचः कर्णो वैकर्तनस्तव | 004a
मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः || 004c
एष नैव रथः पूर्णो नाप्येवातिरथो नृप | 005a
वियुक्तः कवचेनैष सहजेन विचेतनः | 005c
कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी || 005e
अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात् | 006a
करणानां वियोगाच्च तेन मेऽर्धरथो मतः | 006c
नैष फल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते || 006e
सञ्जय उवाच || 007
ततोऽब्रवीन्महाबाहुर्द्रोणः शस्त्रभृतां वरः | 007a
एवमेतद्यथात्थ त्वं न मिथ्यास्तीति किञ्चन || 007c
रणे रणेऽतिमानी च विमुखश्चैव दृश्यते | 008a
घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः || 008c
एतच्छ्रुत्वा तु राधेयः क्रोधादुत्फुल्ललोचनः | 009a
उवाच भीष्मं राजेन्द्र तुदन्वाग्भिः प्रतोदवत् || 009c
पितामह यथेष्टं मां वाक्शरैरुपकृन्तसि | 010a
अनागसं सदा द्वेषादेवमेव पदे पदे | 010c
मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै || 010e
त्वं तु मां मन्यसेऽशक्तं यथा कापुरुषं तथा | 011a
भवानर्धरथो मह्यं मतो नास्त्यत्र संशयः || 011c
सर्वस्य जगतश्चैव गाङ्गेय न मृषा वदे | 012a
कुरूणामहितो नित्यं न च राजावबुध्यते || 012c
को हि नाम समानेषु राजसूदात्तकर्मसु | 013a
तेजोवधमिमं कुर्याद्विभेदयिषुराहवे | 013c
यथा त्वं गुणनिर्देशादपराधं चिकीर्षसि || 013e
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः | 014a
महारथत्वं सङ्ख्यातुं शक्यं क्षत्रस्य कौरव || 014c
बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः | 015a
धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाधिकाः || 015c
यथेच्छकं स्वयङ्ग्राहाद्रथानतिरथांस्तथा | 016a
कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान् || 016c
दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम् | 017a
त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव || 017c
भिन्ना हि सेना नृपते दुःसन्धेया भवत्युत | 018a
मौलापि पुरुषव्याघ्र किमु नाना समुत्थिता || 018c
एषां द्वैधं समुत्पन्नं योधानां युधि भारत | 019a
तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः || 019c
रथानां क्व च विज्ञानं क्व च भीष्मोऽल्पचेतनः | 020a
अहमावारयिष्यामि पाण्डवानामनीकिनीम् || 020c
आसाद्य माममोघेषुं गमिष्यन्ति दिशो दश | 021a
पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव || 021c
क्व च युद्धविमर्दो वा मन्त्राः सुव्याहृतानि वा | 022a
क्व च भीष्मो गतवया मन्दात्मा कालमोहितः || 022c
स्पर्धते हि सदा नित्यं सर्वेण जगता सह | 023a
न चान्यं पुरुषं कञ्चिन्मन्यते मोघदर्शनः || 023c
श्रोतव्यं खलु वृद्धानामिति शास्त्रनिदर्शनम् | 024a
न त्वेवाप्यतिवृद्धानां पुनर्बाला हि ते मताः || 024c
अहमेको हनिष्यामि पाण्डवान्नात्र संशयः | 025a
सुयुद्धे राजशार्दूल यशो भीष्मं गमिष्यति || 025c
कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप | 026a
सेनापतिं गुणो गन्ता न तु योधान्कथञ्चन || 026c
नाहं जीवति गाङ्गेये योत्स्ये राजन्कथञ्चन | 027a
हते तु भीष्मे योधास्मि सर्वैरेव महारथैः || 027c