भीष्म उवाच || 001
शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप | 001a
प्रसज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः || 001c
एतस्य सैन्या दुर्धर्षाः समरेऽप्रतियायिनः | 002a
विकृतायुधभूयिष्ठा वायुवेगसमा जवे || 002c
द्रोणपुत्रो महेष्वासः सर्वेषामति धन्विनाम् | 003a
समरे चित्रयोधी च दृढास्त्रश्च महारथः || 003c
एतस्य हि महाराज यथा गाण्डीवधन्वनः | 004a
शरासनाद्विनिर्मुक्ताः संसक्ता यान्ति सायकाः || 004c
नैष शक्यो मया वीरः सङ्ख्यातुं रथसत्तमः | 005a
निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महायशाः || 005c
क्रोधस्तेजश्च तपसा सम्भृतोऽऽश्रमवासिना | 006a
द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः || 006c
दोषस्त्वस्य महानेको येनैष भरतर्षभ | 007a
न मे रथो नातिरथो मतः पार्थिवसत्तम || 007c
जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः | 008a
न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि || 008c
हन्यादेकरथेनैव देवानामपि वाहिनीम् | 009a
वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान् || 009c
असङ्ख्येयगुणो वीरः प्रहर्ता दारुणद्युतिः | 010a
दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति || 010c
युगान्ताग्निसमः क्रोधे सिंहग्रीवो महामतिः | 011a
एष भारत युद्धस्य पृष्ठं संशमयिष्यति || 011c
पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः | 012a
रणे कर्म महत्कर्ता तत्र मे नास्ति संशयः || 012c
अस्त्रवेगानिलोद्धूतः सेनाकक्षेन्धनोत्थितः | 013a
पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति जये धृतः || 013c
रथयूथपयूथानां यूथपः स नरर्षभः | 014a
भारद्वाजात्मजः कर्ता कर्म तीव्रं हिताय वः || 014c
सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः | 015a
गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनञ्जयः || 015c
नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम् | 016a
हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् || 016c
श्लाघत्येष सदा वीरः पार्थस्य गुणविस्तरैः | 017a
पुत्रादभ्यधिकं चैव भारद्वाजोऽनुपश्यति || 017c
हन्यादेकरथेनैव देवगन्धर्वदानवान् | 018a
एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान् || 018c
पौरवो राजशार्दूलस्तव राजन्महारथः | 019a
मतो मम रथो वीर परवीररथारुजः || 019c
स्वेन सैन्येन सहितः प्रतपञ्शत्रुवाहिनीम् | 020a
प्रधक्ष्यति स पाञ्चालान्कक्षं कृष्णगतिर्यथा || 020c
सत्यव्रतो रथवरो राजपुत्रो महारथः | 021a
तव राजन्रिपुबले कालवत्प्रचरिष्यति || 021c
एतस्य योधा राजेन्द्र विचित्रकवचायुधाः | 022a
विचरिष्यन्ति सङ्ग्रामे निघ्नन्तः शात्रवांस्तव || 022c
वृषसेनो रथाग्र्यस्ते कर्णपुत्रो महारथः | 023a
प्रधक्ष्यति रिपूणां ते बलानि बलिनां वरः || 023c
जलसन्धो महातेजा राजन्रथवरस्तव | 024a
त्यक्ष्यते समरे प्राणान्मागधः परवीरहा || 024c
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः | 025a
रथेन वा महाबाहुः क्षपयञ्शत्रुवाहिनीम् || 025c
रथ एष महाराज मतो मम नरर्षभः | 026a
त्वदर्थे त्यक्ष्यति प्राणान्सह सैन्यो महारणे || 026c
एष विक्रान्तयोधी च चित्रयोधी च सङ्गरे | 027a
वीतभीश्चापि ते राजञ्शात्रवैः सह योत्स्यते || 027c
बाह्लीकोऽतिरथश्चैव समरे चानिवर्तिता | 028a
मम राजन्मतो युद्धे शूरो वैवस्वतोपमः || 028c
न ह्येष समरं प्राप्य निवर्तेत कथञ्चन | 029a
यथा सततगो राजन्नाभिहत्य परान्रणे || 029c
सेनापतिर्महाराज सत्यवांस्ते महारथः | 030a
रणेष्वद्भुतकर्मा च रथः पररथारुजः || 030c
एतस्य समरं दृष्ट्वा न व्यथास्ति कथञ्चन | 031a
उत्स्मयन्नभ्युपैत्येष परान्रथपथे स्थितान् || 031c
एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् | 032a
कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः || 032c
अलायुधो राक्षसेन्द्रः क्रूरकर्मा महाबलः | 033a
हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन् || 033c
एष राक्षससैन्यानां सर्वेषां रथसत्तमः | 034a
मायावी दृढवैरश्च समरे विचरिष्यति || 034c
प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान् | 035a
गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः || 035c
एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः | 036a
दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः || 036c
ततः सखायं गान्धारे मानयन्पाकशासनम् | 037a
अकरोत्संविदं तेन पाण्डवेन महात्मना || 037c
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः | 038a
ऐरावतगतो राजा देवानामिव वासवः || 038c