001 भीष्म उवाच || सुदक्षिणस्तु काम्बोजो रथ एकगुणो मतः | 001a
तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः || 001c
एतस्य रथसिंहस्य तवार्थे राजसत्तम | 002a
पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि || 002c
एतस्य रथवंशो हि तिग्मवेगप्रहारिणाम् | 003a
काम्बोजानां महाराज शलभानामिवायतिः || 003c
नीलो माहिष्मतीवासी नीलवर्मधरस्तव | 004a
रथवंशेन शत्रूणां कदनं वै करिष्यति || 004c
कृतवैरः पुरा चैव सहदेवेन पार्थिवः | 005a
योत्स्यते सततं राजंस्तवार्थे कुरुसत्तम || 005c
विन्दानुविन्दावावन्त्यौ समेतौ रथसत्तमौ | 006a
कृतिनौ समरे तात दृढवीर्यपराक्रमौ || 006c
एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः | 007a
गदाप्रासासिनाराचैस्तोमरैश्च भुजच्युतैः || 007c
युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ | 008a
यूथमध्ये महाराज विचरन्तौ कृतान्तवत् || 008c
त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम | 009a
कृतवैराश्च पार्थेन विराटनगरे तदा || 009c
मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् | 010a
गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम् || 010c
ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम् | 011a
एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम् || 011c
व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह | 012a
दिशो विजयता राजञ्श्वेतवाहेन भारत || 012c
ते हनिष्यन्ति पार्थानां समासाद्य महारथान् | 013a
वरान्वरान्महेष्वासान्क्षत्रियाणां धुरन्धराः || 013c
लक्ष्मणस्तव पुत्रस्तु तथा दुःशासनस्य च | 014a
उभौ तौ पुरुषव्याघ्रौ सङ्ग्रामेष्वनिवर्तिनौ || 014c
तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ | 015a
युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः || 015c
रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ | 016a
क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः || 016c
दण्डधारो महाराज रथ एको नरर्षभः | 017a
योत्स्यते समरं प्राप्य स्वेन सैन्येन पालितः || 017c
बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः | 018a
रथो मम मतस्तात दृढवेगपराक्रमः || 018c
एष योत्स्यति सङ्ग्रामे स्वां चमूं सम्प्रहर्षयन् | 019a
उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः || 019c
कृपः शारद्वतो राजन्रथयूथपयूथपः | 020a
प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव || 020c
गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः | 021a
कार्त्तिकेय इवाजेयः शरस्तम्बात्सुतोऽभवत् || 021c
एष सेनां बहुविधां विविधायुधकार्मुकाम् | 022a
अग्निवत्समरे तात चरिष्यति विमर्दयन् || 022c