धृतराष्ट्र उवाच || 001
प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य सञ्जय | 001a
किमकुर्वन्त मे मन्दाः पुत्रा दुर्योधनादयः || 001c
हतमेव हि पश्यामि गाङ्गेयं पितरं रणे | 002a
वासुदेवसहायेन पार्थेन दृढधन्वना || 002c
स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम् | 003a
किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः || 003c
सेनापत्यं च सम्प्राप्य कौरवाणां धुरन्धरः | 004a
किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः || 004c
वैशम्पायन उवाच || 005
ततस्तत्सञ्जयस्तस्मै सर्वमेव न्यवेदयत् | 005a
यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा || 005c
सञ्जय उवाच || 006
सेनापत्यमनुप्राप्य भीष्मः शान्तनवो नृप | 006a
दुर्योधनमुवाचेदं वचनं हर्षयन्निव || 006c
नमस्कृत्वा कुमाराय सेनान्ये शक्तिपाणये | 007a
अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः || 007c
सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु विविधेषु च | 008a
कर्म कारयितुं चैव भृतानप्यभृतांस्तथा || 008c
यात्रायानेषु युद्धेषु लब्धप्रशमनेषु च | 009a
भृशं वेद महाराज यथा वेद बृहस्पतिः || 009c
व्यूहानपि महारम्भान्दैवगान्धर्वमानुषान् | 010a
तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः || 010c
सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम् | 011a
यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः || 011c
दुर्योधन उवाच || 012
न विद्यते मे गाङ्गेय भयं देवासुरेष्वपि | 012a
समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते || 012c
किं पुनस्त्वयि दुर्धर्षे सेनापत्ये व्यवस्थिते | 013a
द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि || 013c
भवद्भ्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम | 014a
न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम् || 014c
रथसङ्ख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा | 015a
तथैवातिरथानां च वेत्तुमिच्छामि कौरव || 015c
पितामहो हि कुशलः परेषामात्मनस्तथा | 016a
श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः || 016c
भीष्म उवाच || 017
गान्धारे शृणु राजेन्द्र रथसङ्ख्यां स्वके बले | 017a
ये रथाः पृथिवीपाल तथैवातिरथाश्च ये || 017c
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च | 018a
रथानां तव सेनायां यथामुख्यं तु मे शृणु || 018c
भवानग्रे रथोदारः सह सर्वैः सहोदरैः | 019a
दुःशासनप्रभृतिभिर्भ्रातृभिः शतसम्मितैः || 019c
सर्वे कृतप्रहरणाश्छेद्यभेद्यविशारदाः | 020a
रथोपस्थे गजस्कन्धे गदायुद्धेऽसिचर्मणि || 020c
संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः | 021a
इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः || 021c
एते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान् | 022a
कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः || 022c
ततोऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव | 023a
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् | 023c
न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते || 023e
कृतवर्मा त्वतिरथो भोजः प्रहरतां वरः | 024a
अर्थसिद्धिं तव रणे करिष्यति न संशयः || 024c
अस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः | 025a
हनिष्यति रिपूंस्तुभ्यं महेन्द्रो दानवानिव || 025c
मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः | 026a
स्पर्धते वासुदेवेन यो वै नित्यं रणे रणे || 026c
भागिनेयान्निजांस्त्यक्त्वा शल्यस्ते रथसत्तमः | 027a
एष योत्स्यति सङ्ग्रामे कृष्णं चक्रगदाधरम् || 027c
सागरोर्मिसमैर्वेगैः प्लावयन्निव शात्रवान् | 028a
भूरिश्रवाः कृतास्त्रश्च तव चापि हितः सुहृत् || 028c
सौमदत्तिर्महेष्वासो रथयूथपयूथपः | 029a
बलक्षयममित्राणां सुमहान्तं करिष्यति || 029c
सिन्धुराजो महाराज मतो मे द्विगुणो रथः | 030a
योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः || 030c
द्रौपदीहरणे पूर्वं परिक्लिष्टः स पाण्डवैः | 031a
संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा || 031c
एतेन हि तदा राजंस्तप आस्थाय दारुणम् | 032a
सुदुर्लभो वरो लब्धः पाण्डवान्योद्धुमाहवे || 032c
स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे | 033a
योत्स्यते पाण्डवांस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान् || 033c