सञ्जय उवाच || 001
उलूकस्य वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः | 001a
सेनां निर्यापयामास धृष्टद्युम्नपुरोगमाम् || 001c
पदातिनीं नागवतीं रथिनीमश्ववृन्दिनीम् | 002a
चतुर्विधबलां भीमामकम्प्यां पृथिवीमिव || 002c
भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः | 003a
धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम् || 003c
तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः | 004a
द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नः प्रकर्षति || 004c
यथाबलं यथोत्साहं रथिनः समुपादिशत् | 005a
अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च || 005c
अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे | 006a
सैन्धवाय च वार्ष्णेयं युयुधानमुपादिशत् || 006c
शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत् | 007a
सहदेवं शकुनये चेकितानं शलाय च || 007c
धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम् | 008a
द्रौपदेयांश्च पञ्चभ्यस्त्रिगर्तेभ्यः समादिशत् || 008c
वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम् | 009a
समर्थं तं हि मेने वै पार्थादभ्यधिकं रणे || 009c
एवं विभज्य योधांस्तान्पृथक्च सह चैव ह | 010a
ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत् || 010c
धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः | 011a
विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः || 011c
यथादिष्टान्यनीकानि पाण्डवानामयोजयत् | 012a
जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे || 012c