सञ्जय उवाच || 001
दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः | 001a
नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत || 001c
स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः | 002a
अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् || 002c
स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान् | 003a
अभीतः पूरयञ्शक्तिं स वै पुरुष उच्यते || 003c
परवीर्यं समाश्रित्य यः समाह्वयते परान् | 004a
क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः || 004c
स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः | 005a
स्वयं कापुरुषो मूढः परांश्च क्षेप्तुमिच्छसि || 005c
यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम् | 006a
मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे || 006c
भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन | 007a
न हनिष्यन्ति गङ्गेयं पाण्डवा घृणयेति च || 007c
यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे | 008a
हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् || 008c
कैतव्य गत्वा भरतान्समेत्य सुयोधनं धार्तराष्ट्रं ब्रवीहि | 009a
तथेत्याह अर्जुनः सव्यसाची निशाव्यपाये भविता विमर्दः || 009c
यद्वोऽब्रवीद्वाक्यमदीनसत्त्वो मध्ये कुरूणां हर्षयन्सत्यसन्धः | 010a
अहं हन्ता पाण्डवानामनीकं शाल्वेयकांश्चेति ममैष भारः || 010c
हन्यामहं द्रोणमृते हि लोकं न ते भयं विद्यते पाण्डवेभ्यः | 011a
ततो हि ते लब्धतमं च राज्यं क्षयं गताः पाण्डवाश्चेति भावः || 011c
स दर्पपूर्णो न समीक्षसे त्वमनर्थमात्मन्यपि वर्तमानम् | 012a
तस्मादहं ते प्रथमं समूहे हन्ता समक्षं कुरुवृद्धमेव || 012c
सूर्योदये युक्तसेनः प्रतीक्ष्य ध्वजी रथी रक्ष च सत्यसन्धम् | 013a
अहं हि वः पश्यतां द्वीपमेनं रथाद्भीष्मं पातयितास्मि बाणैः || 013c
श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः | 014a
अर्दितं शरजालेन मया दृष्ट्वा पितामहम् || 014c
यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः | 015a
क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव || 015c
अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत् | 016a
सत्यां प्रतिज्ञां नचिराद्रक्ष्यसे तां सुयोधन || 016c
अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा | 017a
नैष्ठुर्यस्यावलेपस्य आत्मसम्भावनस्य च || 017c
नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च | 018a
अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च || 018c
दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च | 019a
द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन || 019c
वासुदेवद्वितीये हि मयि क्रुद्धे नराधिप | 020a
आशा ते जीविते मूढ राज्ये वा केन हेतुना || 020c
शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते | 021a
निराशो जीविते राज्ये पुत्रेषु च भविष्यसि || 021c
भ्रातॄणां निधनं दृष्ट्वा पुत्राणां च सुयोधन | 022a
भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि || 022c
न द्वितीयां प्रतिज्ञां हि प्रतिज्ञास्यति केशवः | 023a
सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति || 023c
इत्युक्तः कैतवो राजंस्तद्वाक्यमुपधार्य च | 024a
अनुज्ञातो निववृते पुनरेव यथागतम् || 024c
उपावृत्य तु पाण्डुभ्यः कैतव्यो धृतराष्ट्रजम् | 025a
गत्वा यथोक्तं तत्सर्वमुवाच कुरुसंसदि || 025c
केशवार्जुनयोर्वाक्यं निशम्य भरतर्षभः | 026a
दुःशासनं च कर्णं च शकुनिं चाभ्यभाषत || 026c
आज्ञापयत राज्ञश्च बलं मित्रबलं तथा | 027a
यथा प्रागुदयात्सर्वा युक्ता तिष्ठत्यनीकिनी || 027c
ततः कर्णसमादिष्टा दूताः प्रत्वरिता रथैः | 028a
उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः || 028c
तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात् | 029a
आज्ञापयन्तो राज्ञस्तान्योगः प्रागुदयादिति || 029c