सञ्जय उवाच || 001
उलूकस्त्वर्जुनं भूयो यथोक्तं वाक्यमब्रवीत् | 001a
आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया || 001c
तस्य तद्वचनं श्रुत्वा रुषिताः पाण्डवा भृशम् | 002a
प्रागेव भृशसङ्क्रुद्धाः कैतव्येन प्रधर्षिताः || 002c
नासनेष्ववतिष्ठन्त बाहूंश्चैव विचिक्षिपुः | 003a
आशीविषा इव क्रुद्धा वीक्षां चक्रुः परस्परम् || 003c
अवाक्शिरा भीमसेनः समुदैक्षत केशवम् | 004a
नेत्राभ्यां लोहितान्ताभ्यामाशीविष इव श्वसन् || 004c
आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम् | 005a
उत्स्मयन्निव दाशार्हः कैतव्यं प्रत्यभाषत || 005c
प्रयाहि शीघ्रं कैतव्य ब्रूयाश्चैव सुयोधनम् | 006a
श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथास्तु तत् || 006c
मद्वचश्चापि भूयस्ते वक्तव्यः स सुयोधनः | 007a
श्व इदानीं प्रदृश्येथाः पुरुषो भव दुर्मते || 007c
मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः | 008a
सारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च || 008c
जघन्यकालमप्येतद्भवेद्यत्सर्वपार्थिवान् | 009a
निर्दहेयमहं क्रोधात्तृणानीव हुताशनः || 009c
युधिष्ठिरनियोगात्तु फल्गुनस्य महात्मनः | 010a
करिष्ये युध्यमानस्य सारथ्यं विदितात्मनः || 010c
यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम् | 011a
तत्र तत्रार्जुनरथं प्रभाते द्रक्ष्यसेऽग्रतः || 011c
यच्चापि भीमसेनस्य मन्यसे मोघगर्जितम् | 012a
दुःशासनस्य रुधिरं पीतमित्यवधार्यताम् || 012c
न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः | 013a
न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम् || 013c