सञ्जय उवाच || 001
सेनानिवेशं सम्प्राप्य कैतव्यः पाण्डवस्य ह | 001a
समागतः पाण्डवेयैर्युधिष्ठिरमभाषत || 001c
अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम | 002a
दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि || 002c
युधिष्ठिर उवाच || 003
उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः | 003a
यन्मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः || 003c
सञ्जय उवाच || 004
ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम् | 004a
सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः || 004c
द्रुपदस्य सपुत्रस्य विराटस्य च सन्निधौ | 005a
भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह || 005c
इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः | 006a
शृण्वतां कुरुवीराणां तन्निबोध नराधिप || 006c
पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् | 007a
शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना || 007c
द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासिताः | 008a
संवत्सरं विराटस्य दास्यमास्थाय चोषिताः || 008c
अमर्षं राज्यहरणं वनवासं च पाण्डव | 009a
द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव || 009c
अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव | 010a
दुःशासनस्य रुधिरं पीयतां यदि शक्यते || 010c
लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् | 011a
समः पन्था भृता योधाः श्वो युध्यस्व सकेशवः || 011c
असमागम्य भीष्मेण संयुगे किं विकत्थसे | 012a
आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् || 012c
द्रोणं च युध्यतां श्रेष्ठं शचीपतिसमं युधि | 013a
अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि || 013c
ब्राह्मे धनुषि चाचार्यं वेदयोरन्तरं द्वयोः | 014a
युधि धुर्यमविक्षोभ्यमनीकधरमच्युतम् || 014c
द्रोणं मोहाद्युधा पार्थ यज्जिगीषसि तन्मृषा | 015a
न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् || 015c
अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् | 016a
युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् || 016c
को ह्याभ्यां जीविताकाङ्क्षी प्राप्यास्त्रमरिमर्दनम् | 017a
गजो वाजी नरो वापि पुनः स्वस्ति गृहान्व्रजेत् || 017c
कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा | 018a
रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन् || 018c
किं दर्दुरः कूपशयो यथेमां न बुध्यसे राजचमूं समेताम् | 019a
दुराधर्षां देवचमूप्रकाशां गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् || 019c
प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यैरुदीच्यकाम्बोजशकैः खशैश्च | 020a
शाल्वैः समत्स्यैः कुरुमध्यदेशैर्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः || 020c
नानाजनौघं युधि सम्प्रवृद्धं गाङ्गं यथा वेगमवारणीयम् | 021a
मां च स्थितं नागबलस्य मध्ये युयुत्ससे मन्द किमल्पबुद्धे || 021c
इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम् | 022a
अभ्यावृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत || 022c
अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं बहु | 023a
पर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात् || 023c
यदीदं कत्थनात्सिध्येत्कर्म लोके धनञ्जय | 024a
सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः || 024c
जानामि ते वासुदेवं सहायं जानामि ते गाण्डिवं तालमात्रम् | 025a
जानाम्येतत्त्वादृशो नास्ति योद्धा राज्यं च ते जानमानो हरामि || 025c
न तु पर्यायधर्मेण सिद्धिं प्राप्नोति भूयसीम् | 026a
मनसैव हि भूतानि धाता प्रकुरुते वशे || 026c
त्रयोदश समा भुक्तं राज्यं विलपतस्तव | 027a
भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् || 027c
क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणे जितः | 028a
क्व तदा भीमसेनस्य बलमासीच्च फल्गुन || 028c
सगदाद्भीमसेनाच्च पार्थाच्चैव सगाण्डिवात् | 029a
न वै मोक्षस्तदा वोऽभूद्विना कृष्णामनिन्दिताम् || 029c
सा वो दास्यं समापन्नान्मोक्षयामास भामिनी | 030a
अमानुष्यसमायुक्तान्दास्यकर्मण्यवस्थितान् || 030c
अवोचं यत्षण्ढतिलानहं वस्तथ्यमेव तत् | 031a
धृता हि वेणी पार्थेन विराटनगरे तदा || 031c
सूदकर्मणि च श्रान्तं विराटस्य महानसे | 032a
भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम् || 032c
एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः | 033a
श्रेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते || 033c
न भयाद्वासुदेवस्य न चापि तव फल्गुन | 034a
राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः || 034c
न माया हीन्द्रजालं वा कुहका वा विभीषणी | 035a
आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः || 035c
वासुदेवसहस्रं वा फल्गुनानां शतानि वा | 036a
आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश || 036c
संयुगं गच्छ भीष्मेण भिन्धि त्वं शिरसा गिरिम् | 037a
प्रतरेमं महागाधं बाहुभ्यां पुरुषोदधिम् || 037c
शारद्वतमहीमानं विविंशतिझषाकुलम् | 038a
बृहद्बलसमुच्चालं सौमदत्तितिमिङ्गिलम् || 038c
दुःशासनौघं शलशल्यमत्स्यं सुषेणचित्रायुधनागनक्रम् | 039a
जयद्रथाद्रिं पुरुमित्रगाधं दुर्मर्षणोदं शकुनिप्रपातम् || 039c
शस्त्रौघमक्षय्यमतिप्रवृद्धं यदावगाह्य श्रमनष्टचेताः | 040a
भविष्यसि त्वं हतसर्वबान्धवस्तदा मनस्ते परितापमेष्यति || 040c
तदा मनस्ते त्रिदिवादिवाशुचेर्निवर्ततां पार्थ महीप्रशासनात् | 041a
राज्यं प्रशास्तुं हि सुदुर्लभं त्वया बुभूषता स्वर्ग इवातपस्विना || 041c