सञ्जय उवाच || 001
हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु | 001a
दुर्योधनो महाराज कर्णेन सह भारत || 001c
सौबलेन च राजेन्द्र तथा दुःशासनेन च | 002a
आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् || 002c
उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान् | 003a
गत्वा मम वचो ब्रूहि वासुदेवस्य शृण्वतः || 003c
इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम् | 004a
पाण्डवानां कुरूणां च युद्धं लोकभयङ्करम् || 004c
यदेतत्कत्थनावाक्यं सञ्जयो महदब्रवीत् | 005a
मध्ये कुरूणां कौन्तेय तस्य कालोऽयमागतः | 005c
यथा वः सम्प्रतिज्ञातं तत्सर्वं क्रियतामिति || 005e
अमर्षं राज्यहरणं वनवासं च पाण्डव | 006a
द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव || 006c
यदर्थं क्षत्रिया सूते गर्भं तदिदमागतम् | 007a
बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम् | 007c
पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम् || 007e
परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च | 008a
न स्फुटेद्धृदयं कस्य ऐश्वर्याद्भ्रंशितस्य च || 008c
कुले जातस्य शूरस्य परवित्तेषु गृध्यतः | 009a
आच्छिन्नं राज्यमाक्रम्य कोपं कस्य न दीपयेत् || 009c
यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम् | 010a
अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः || 010c
अमित्राणां वशे स्थानं राज्यस्य च पुनर्भवः | 011a
द्वावर्थौ युध्यमानस्य तस्मात्कुरुत पौरुषम् || 011c
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् | 012a
अथ वा निहतोऽस्माभिर्वीरलोकं गमिष्यसि || 012c
राष्ट्रात्प्रव्राजनं क्लेशं वनवासं च पाण्डव | 013a
कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव || 013c
अप्रियाणां च वचने प्रव्रजत्सु पुनः पुनः | 014a
अमर्षं दर्शयाद्य त्वममर्षो ह्येव पौरुषम् || 014c
क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम् | 015a
इह ते पार्थ दृश्यन्तां सङ्ग्रामे पुरुषो भव || 015c
तं च तूबरकं मूढं बह्वाशिनमविद्यकम् | 016a
उलूक मद्वचो ब्रूया असकृद्भीमसेनकम् || 016c
अशक्तेनैव यच्छप्तं सभामध्ये वृकोदर | 017a
दुःशासनस्य रुधिरं पीयतां यदि शक्यते || 017c
लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् | 018a
पुष्टास्तेऽश्वा भृता योधाः श्वो युध्यस्व सकेशवः || 018c