जनमेजय उवाच || 001
तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ | 001a
किमकुर्वन्त कुरवः कालेनाभिप्रचोदिताः || 001c
वैशम्पायन उवाच || 002
तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ | 002a
धृतराष्ट्रो महाराज सञ्जयं वाक्यमब्रवीत् || 002c
एहि सञ्जय मे सर्वमाचक्ष्वानवशेषतः | 003a
सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः || 003c
दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् | 004a
यदहं जानमानोऽपि युद्धदोषान्क्षयोदयान् || 004c
तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम् | 005a
न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः || 005c
भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी | 006a
दुर्योधनं समासाद्य पुनः सा परिवर्तते || 006c
एवं गते वै यद्भावि तद्भविष्यति सञ्जय | 007a
क्षत्रधर्मः किल रणे तनुत्यागोऽभिपूजितः || 007c
सञ्जय उवाच || 008
त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि | 008a
न तु दुर्योधने दोषमिममासक्तुमर्हसि | 008c
शृणुष्वानवशेषेण वदतो मम पार्थिव || 008e
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः | 009a
एनसा न स दैवं वा कालं वा गन्तुमर्हति || 009c
महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् | 010a
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् || 010c
निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया | 011a
अनुभूताः सहामात्यैर्निकृतैरधिदेवने || 011c
हयानां च गजानां च राज्ञां चामिततेजसाम् | 012a
वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः || 012c
स्थिरो भूत्वा महाराज सर्वलोकक्षयोदयम् | 013a
यथाभूतं महायुद्धे श्रुत्वा मा विमना भव || 013c
न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः | 014a
अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत् || 014c
केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया | 015a
पूर्वकर्मभिरप्यन्ये त्रैधमेतद्विकृष्यते || 015c