वैशम्पायन उवाच || 001
एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः | 001a
हिरण्यलोम्नो नृपतेः साक्षादिन्द्रसखस्य वै || 001c
आहृतीनामधिपतेर्भोजस्यातियशस्विनः | 002a
दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः || 002c
यः किम्पुरुषसिंहस्य गन्धमादनवासिनः | 003a
शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादमवाप्तवान् || 003c
यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा | 004a
शार्ङ्गेण च महाबाहुः सम्मितं दिव्यमक्षयम् || 004c
त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम् | 005a
वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः || 005c
शार्ङ्गं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः | 006a
धारयामास यत्कृष्णः परसेनाभयावहम् || 006c
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः | 007a
द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत || 007c
सञ्छिद्य मौरवान्पाशान्निहत्य मुरमोजसा | 008a
निर्जित्य नरकं भौममाहृत्य मणिकुण्डले || 008c
षोडश स्त्रीसहस्राणि रत्नानि विविधानि च | 009a
प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम् || 009c
रुक्मी तु विजयं लब्ध्वा धनुर्मेघसमस्वनम् | 010a
विभीषयन्निव जगत्पाण्डवानभ्यवर्तत || 010c
नामृष्यत पुरा योऽसौ स्वबाहुबलदर्पितः | 011a
रुक्मिण्या हरणं वीरो वासुदेवेन धीमता || 011c
कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्यामि केशवम् | 012a
ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरम् || 012c
सेनया चतुरङ्गिण्या महत्या दूरपातया | 013a
विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया || 013c
स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम् | 014a
व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम् || 014c
यत्रैव कृष्णेन रणे निर्जितः परवीरहा | 015a
तत्र भोजकटं नाम चक्रे नगरमुत्तमम् || 015c
सैन्येन महता तेन प्रभूतगजवाजिना | 016a
पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप || 016c
स भोजराजः सैन्येन महता परिवारितः | 017a
अक्षौहिण्या महावीर्यः पाण्डवान्समुपागमत् || 017c
ततः स कवची खड्गी शरी धन्वी तली रथी | 018a
ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम् || 018c
विदितः पाण्डवेयानां वासुदेवप्रियेप्सया | 019a
युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत् || 019c
स पूजितः पाण्डुसुतैर्यथान्यायं सुसत्कृतः | 020a
प्रतिपूज्य च तान्सर्वान्विश्रान्तः सहसैनिकः | 020c
उवाच मध्ये वीराणां कुन्तीपुत्रं धनञ्जयम् || 020e
सहायोऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डव | 021a
करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः || 021c
न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन | 022a
निहत्य समरे शत्रूंस्तव दास्यामि फल्गुन || 022c
इत्युक्तो धर्मराजस्य केशवस्य च सन्निधौ | 023a
शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः || 023c
वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम् | 024a
उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् || 024c
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः | 025a
सहायो घोषयात्रायां कस्तदासीत्सखा मम || 025c
तथा प्रतिभये तस्मिन्देवदानवसङ्कुले | 026a
खाण्डवे युध्यमानस्य कः सहायस्तदाभवत् || 026c
निवातकवचैर्युद्धे कालकेयैश्च दानवैः | 027a
तत्र मे युध्यमानस्य कः सहायस्तदाभवत् || 027c
तथा विराटनगरे कुरुभिः सह सङ्गरे | 028a
युध्यतो बहुभिस्तात कः सहायोऽभवन्मम || 028c
उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम् | 029a
वरुणं पावकं चैव कृपं द्रोणं च माधवम् || 029c
धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम् | 030a
अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः || 030c
कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः | 031a
द्रोणं व्यपदिशञ्शिष्यो वासुदेवसहायवान् || 031c
कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीत्ययशस्करम् | 032a
वचनं नरशार्दूल वज्रायुधमपि स्वयम् || 032c
नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे | 033a
यथाकामं यथायोगं गच्छ वान्यत्र तिष्ठ वा || 033c
विनिवर्त्य ततो रुक्मी सेनां सागरसन्निभाम् | 034a
दुर्योधनमुपागच्छत्तथैव भरतर्षभ || 034c
तथैव चाभिगम्यैनमुवाच स नराधिपः | 035a
प्रत्याख्यातश्च तेनापि स तदा शूरमानिना || 035c
द्वावेव तु महाराज तस्माद्युद्धाद्व्यपेयतुः | 036a
रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः || 036c
गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा | 037a
उपाविशन्पाण्डवेया मन्त्राय पुनरेव हि || 037c
समितिर्धर्मराजस्य सा पार्थिवसमाकुला | 038a
शुशुभे तारकाचित्रा द्यौश्चन्द्रेणेव भारत || 038c