जनमेजय उवाच || 001
आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम् | 001a
पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् || 001c
बृहस्पतिसमं बुद्ध्या क्षमया पृथिवीसमम् | 002a
समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम् || 002c
प्रजापतिमिवौदार्ये तेजसा भास्करोपमम् | 003a
महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः || 003c
रणयज्ञे प्रतिभये स्वाभीले लोमहर्षणे | 004a
दीक्षितं चिररात्राय श्रुत्वा राजा युधिष्ठिरः || 004c
किमब्रवीन्महाबाहुः सर्वधर्मविशारदः | 005a
भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यपद्यत || 005c
वैशम्पायन उवाच || 006
आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः | 006a
सर्वान्भ्रातॄन्समानीय वासुदेवं च सात्वतम् | 006c
उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः || 006e
पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः | 007a
पितामहेन वो युद्धं पूर्वमेव भविष्यति | 007c
तस्मात्सप्तसु सेनासु प्रणेतॄन्मम पश्यत || 007e
वासुदेव उवाच || 008
यथार्हति भवान्वक्तुमस्मिन्काल उपस्थिते | 008a
तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ || 008c
रोचते मे महाबाहो क्रियतां यदनन्तरम् | 009a
नायकास्तव सेनायामभिषिच्यन्तु सप्त वै || 009c
वैशम्पायन उवाच || 010
ततो द्रुपदमानाय्य विराटं शिनिपुङ्गवम् | 010a
धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिवम् | 010c
शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम् || 010e
एतान्सप्त महेष्वासान्वीरान्युद्धाभिनन्दिनः | 011a
सेनाप्रणेतॄन्विधिवदभ्यषिञ्चद्युधिष्ठिरः || 011c
सर्वसेनापतिं चात्र धृष्टद्युम्नमुपादिशत् | 012a
द्रोणान्तहेतोरुत्पन्नो य इद्धाज्जातवेदसः || 012c
सर्वेषामेव तेषां तु समस्तानां महात्मनाम् | 013a
सेनापतिपतिं चक्रे गुडाकेशं धनञ्जयम् || 013c
अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम् | 014a
सङ्कर्षणानुजः श्रीमान्महाबुद्धिर्जनार्दनः || 014c
तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् | 015a
प्राविशद्भवनं राज्ञः पाण्डवस्य हलायुधः || 015c
सहाक्रूरप्रभृतिभिर्गदसाम्बोल्मुकादिभिः | 016a
रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः || 016c
वृष्णिमुख्यैरभिगतैर्व्याघ्रैरिव बलोत्कटैः | 017a
अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः || 017c
नीलकौशेयवसनः कैलासशिखरोपमः | 018a
सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः || 018c
तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः | 019a
उदतिष्ठत्तदा पार्थो भीमकर्मा वृकोदरः || 019c
गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन | 020a
पूजयां चक्रुरभ्येत्य ते स्म सर्वे हलायुधम् || 020c
ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना | 021a
वासुदेवपुरोगास्तु सर्व एवाभ्यवादयन् || 021c
विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः | 022a
युधिष्ठिरेण सहित उपाविशदरिन्दमः || 022c
ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः | 023a
वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत || 023c
भवितायं महारौद्रो दारुणः पुरुषक्षयः | 024a
दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम् || 024c
अस्माद्युद्धात्समुत्तीर्णानपि वः ससुहृज्जनान् | 025a
अरोगानक्षतैर्देहैः पश्येयमिति मे मतिः || 025c
समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम् | 026a
विमर्दः सुमहान्भावी मांसशोणितकर्दमः || 026c
उक्तो मया वासुदेवः पुनः पुनरुपह्वरे | 027a
सम्बन्धिषु समां वृत्तिं वर्तस्व मधुसूदन || 027c
पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः | 028a
तस्यापि क्रियतां युक्त्या सपर्येति पुनः पुनः || 028c
तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः | 029a
निविष्टः सर्वभावेन धनञ्जयमवेक्ष्य च || 029c
ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः | 030a
तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत || 030c
न चाहमुत्सहे कृष्णमृते लोकमुदीक्षितुम् | 031a
ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् || 031c
उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ | 032a
तुल्यस्नेहोऽस्म्यतो भीमे तथा दुर्योधने नृपे || 032c
तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् | 033a
न हि शक्ष्यामि कौरव्यान्नश्यमानानुपेक्षितुम् || 033c
एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः | 034a
तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम् || 034c