वैशम्पायन उवाच || 001
ततः शान्तनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः | 001a
सह सर्वैर्महीपालैरिदं वचनमब्रवीत् || 001c
ॠते सेनाप्रणेतारं पृतना सुमहत्यपि | 002a
दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा || 002c
न हि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित् | 003a
शौर्यं च नाम नेतॄणां स्पर्धते च परस्परम् || 003c
श्रूयते च महाप्राज्ञ हैहयानमितौजसः | 004a
अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः || 004c
तानन्वयुस्तदा वैश्याः शूद्राश्चैव पितामह | 005a
एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः || 005c
ते स्म युद्धेष्वभज्यन्त त्रयो वर्णाः पुनः पुनः | 006a
क्षत्रियास्तु जयन्त्येव बहुलं चैकतो बलम् || 006c
ततस्ते क्षत्रियानेव पप्रच्छुर्द्विजसत्तमाः | 007a
तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह || 007c
वयमेकस्य शृणुमो महाबुद्धिमतो रणे | 008a
भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः || 008c
ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम् | 009a
नयेषु कुशलं शूरमजयन्क्षत्रियांस्ततः || 009c
एवं ये कुशलं शूरं हिते स्थितमकल्मषम् | 010a
सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून् || 010c
भवानुशनसा तुल्यो हितैषी च सदा मम | 011a
असंहार्यः स्थितो धर्मे स नः सेनापतिर्भव || 011c
रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः | 012a
कुबेर इव यक्षाणां मरुतामिव वासवः || 012c
पर्वतानां यथा मेरुः सुपर्णः पततामिव | 013a
कुमार इव भूतानां वसूनामिव हव्यवाट् || 013c
भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः | 014a
अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम् || 014c
प्रयातु नो भवानग्रे देवानामिव पावकिः | 015a
वयं त्वामनुयास्यामः सौरभेया इवर्षभम् || 015c
भीष्म उवाच || 016
एवमेतन्महाबाहो यथा वदसि भारत | 016a
यथैव हि भवन्तो मे तथैव मम पाण्डवाः || 016c
अपि चैव मया श्रेयो वाच्यं तेषां नराधिप | 017a
योद्धव्यं तु तवार्थाय यथा स समयः कृतः || 017c
न तु पश्यामि योद्धारमात्मनः सदृशं भुवि | 018a
ॠते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनञ्जयात् || 018c
स हि वेद महाबाहुर्दिव्यान्यस्त्राणि सर्वशः | 019a
न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः || 019c
अहं स च क्षणेनैव निर्मनुष्यमिदं जगत् | 020a
कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम् || 020c
न त्वेवोत्सादनीया मे पाण्डोः पुत्रा नराधिप | 021a
तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा || 021c
एवमेषां करिष्यामि निधनं कुरुनन्दन | 022a
न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे || 022c
सेनापतिस्त्वहं राजन्समयेनापरेण ते | 023a
भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि || 023c
कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते | 024a
स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे || 024c
कर्ण उवाच || 025
नाहं जीवति गाङ्गेये योत्स्ये राजन्कथञ्चन | 025a
हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना || 025c
वैशम्पायन उवाच || 026
ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम् | 026a
धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत || 026c
ततो भेरीश्च शङ्खांश्च शतशश्चैव पुष्करान् | 027a
वादयामासुरव्यग्राः पुरुषा राजशासनात् || 027c
सिंहनादाश्च विविधा वाहनानां च निस्वनाः | 028a
प्रादुरासन्ननभ्रे च वर्षं रुधिरकर्दमम् || 028c
निर्घाताः पृथिवीकम्पा गजबृंहितनिस्वनाः | 029a
आसंश्च सर्वयोधानां पातयन्तो मनांस्युत || 029c
वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे | 030a
शिवाश्च भयवेदिन्यो नेदुर्दीप्तस्वरा भृशम् || 030c
सेनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान् | 031a
तदैतान्युग्ररूपाणि अभवञ्शतशो नृप || 031c
ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम् | 032a
वाचयित्वा द्विजश्रेष्ठान्निष्कैर्गोभिश्च भूरिशः || 032c
वर्धमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः | 033a
आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा | 033c
स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह || 033e
परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः | 034a
शिबिरं मापयामास समे देशे नराधिपः || 034c
मधुरानूषरे देशे प्रभूतयवसेन्धने | 035a
यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ || 035c