वैशम्पायन उवाच || 001
व्युषितायां रजन्यां तु राजा दुर्योधनस्ततः | 001a
व्यभजत्तान्यनीकानि दश चैकं च भारत || 001c
नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च | 002a
सर्वेष्वेतेष्वनीकेषु सन्दिदेश महीपतिः || 002c
सानुकर्षाः सतूणीराः सवरूथाः सतोमराः | 003a
सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सपोथिकाः || 003c
सध्वजाः सपताकाश्च सशरासनतोमराः | 004a
रज्जुभिश्च विचित्राभिः सपाशाः सपरिस्तराः || 004c
सकचग्रहविक्षेपाः सतैलगुडवालुकाः | 005a
साशीविषघटाः सर्वे ससर्जरसपांसवः || 005c
सघण्टाफलकाः सर्वे वासीवृक्षादनान्विताः | 006a
व्याघ्रचर्मपरीवारा वृताश्च द्वीपिचर्मभिः || 006c
सवस्तयः सशृङ्गाश्च सप्रासविविधायुधाः | 007a
सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः || 007c
चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः | 008a
तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः || 008c
कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः | 009a
बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः || 009c
चतुर्युजो रथाः सर्वे सर्वे शस्त्रसमायुताः | 010a
संहृष्टवाहनाः सर्वे सर्वे शतशरासनाः || 010c
धुर्ययोर्हययोरेकस्तथान्यौ पार्ष्णिसारथी | 011a
तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा || 011c
नगराणीव गुप्तानि दुरादेयानि शत्रुभिः | 012a
आसन्रथसहस्राणि हेममालीनि सर्वशः || 012c
यथा रथास्तथा नागा बद्धकक्ष्याः स्वलङ्कृताः | 013a
बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः || 013c
द्वावङ्कुशधरौ तेषु द्वावुत्तमधनुर्धरौ | 014a
द्वौ वरासिधरौ राजन्नेकः शक्तिपताकधृक् || 014c
गजैर्मत्तैः समाकीर्णं सर्वमायुधकोशकैः | 015a
तद्बभूव बलं राजन्कौरव्यस्य सहस्रशः || 015c
विचित्रकवचामुक्तैः सपताकैः स्वलङ्कृतैः | 016a
सादिभिश्चोपसम्पन्ना आसन्नयुतशो हयाः || 016c
सुसङ्ग्राहाः सुसन्तोषा हेमभाण्डपरिच्छदाः | 017a
अनेकशतसाहस्रास्ते च सादिवशे स्थिताः || 017c
नानारूपविकाराश्च नानाकवचशस्त्रिणः | 018a
पदातिनो नरास्तत्र बभूवुर्हेममालिनः || 018c
रथस्यासन्दश गजा गजस्य दश वाजिनः | 019a
नरा दश हयस्यासन्पादरक्षाः समन्ततः || 019c
रथस्य नागाः पञ्चाशन्नागस्यासञ्शतं हयाः | 020a
हयस्य पुरुषाः सप्त भिन्नसन्धानकारिणः || 020c
सेना पञ्चशतं नागा रथास्तावन्त एव च | 021a
दशसेना च पृतना पृतना दशवाहिनी || 021c
वाहिनी पृतना सेना ध्वजिनी सादिनी चमूः | 022a
अक्षौहिणीति पर्यायैर्निरुक्ताथ वरूथिनी | 022c
एवं व्यूढान्यनीकानि कौरवेयेण धीमता || 022e
अक्षौहिण्यो दशैका च सङ्ख्याताः सप्त चैव ह | 023a
अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम् | 023c
अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम् || 023e
नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते | 024a
सेनामुखं च तिस्रस्ता गुल्म इत्यभिसञ्ज्ञितः || 024c
दश गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन् | 025a
दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः || 025c
तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान् | 026a
प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा || 026c
पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान् | 027a
विधिपूर्वं समानीय पार्थिवानभ्यषेचयत् || 027c
कृपं द्रोणं च शल्यं च सैन्धवं च महारथम् | 028a
सुदक्षिणं च काम्बोजं कृतवर्माणमेव च || 028c
द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च | 029a
शकुनिं सौबलं चैव बाह्लीकं च महारथम् || 029c
दिवसे दिवसे तेषां प्रतिवेलं च भारत | 030a
चक्रे स विविधाः सञ्ज्ञाः प्रत्यक्षं च पुनः पुनः || 030c
तथा विनियताः सर्वे ये च तेषां पदानुगाः | 031a
बभूवुः सैनिका राजन्राज्ञः प्रियचिकीर्षवः || 031c