वैशम्पायन उवाच || 001
वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः | 001a
पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम् || 001c
अस्मिन्नभ्यागते काले किं च नः क्षममच्युत | 002a
कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि || 002c
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च | 003a
वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च || 003c
विदुरस्यापि ते वाक्यं श्रुतं भीष्मस्य चोभयोः | 004a
कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता || 004c
सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः | 005a
यन्नः क्षमं महाबाहो तद्ब्रवीह्यविचारयन् || 005c
श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः | 006a
मेघदुन्दुभिनिर्घोषः कृष्णो वचनमब्रवीत् || 006c
उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम् | 007a
न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति || 007c
न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा | 008a
मम वा भाषितं किञ्चित्सर्वमेवातिवर्तते || 008c
न स कामयते धर्मं न स कामयते यशः | 009a
जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः || 009c
बन्धमाज्ञापयामास मम चापि सुयोधनः | 010a
न च तं लब्धवान्कामं दुरात्मा शासनातिगः || 010c
न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः | 011a
सर्वे तमनुवर्तन्ते ॠते विदुरमच्युत || 011c
शकुनिः सौबलश्चैव कर्णदुःशासनावपि | 012a
त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम् || 012c
किं च तेन मयोक्तेन यान्यभाषन्त कौरवाः | 013a
सङ्क्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते || 013c
न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः | 014a
यत्पापं यन्न कल्याणं सर्वं तस्मिन्प्रतिष्ठितम् || 014c
न चापि वयमत्यर्थं परित्यागेन कर्हिचित् | 015a
कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम् || 015c
तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम् | 016a
अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत || 016c
युधिष्ठिरस्त्वभिप्रायमुपलभ्य महीक्षिताम् | 017a
योगमाज्ञापयामास भीमार्जुनयमैः सह || 017c
ततः किलकिलाभूतमनीकं पाण्डवस्य ह | 018a
आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः || 018c
अवध्यानां वधं पश्यन्धर्मराजो युधिष्ठिरः | 019a
निष्टनन्भीमसेनं च विजयं चेदमब्रवीत् || 019c
यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया | 020a
सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः || 020c
यस्मिन्यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः | 021a
अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान् || 021c
कथं ह्यवध्यैः सङ्ग्रामः कार्यः सह भविष्यति | 022a
कथं हत्वा गुरून्वृद्धान्विजयो नो भविष्यति || 022c
तच्छ्रुत्वा धर्मराजस्य सव्यसाची परन्तपः | 023a
यदुक्तं वासुदेवेन श्रावयामास तद्वचः || 023c
उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च | 024a
वचनं तत्त्वया राजन्निखिलेनावधारितम् || 024c
न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः | 025a
न चापि युक्तं कौन्तेय निवर्तितुमयुध्यतः || 025c
तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा | 026a
स्मयमानोऽब्रवीत्पार्थमेवमेतदिति ब्रुवन् || 026c
ततस्ते धृतसङ्कल्पा युद्धाय सहसैनिकाः | 027a
पाण्डवेया महाराज तां रात्रिं सुखमावसन् || 027c