जनमेजय उवाच || 001
युधिष्ठिरं सहानीकमुपयान्तं युयुत्सया | 001a
सन्निविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् || 001c
विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् | 002a
केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् || 002c
महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः | 003a
श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत || 003c
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन | 004a
सम्भ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले || 004c
व्यथयेयुर्हि देवानां सेनामपि समागमे | 005a
पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा || 005c
धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः | 006a
युयुधानश्च विक्रान्तो देवैरपि दुरासदः || 006c
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन | 007a
कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् || 007c
वैशम्पायन उवाच || 008
प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा | 008a
कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् || 008c
अकृतेनैव कार्येण गतः पार्थानधोक्षजः | 009a
स एनान्मन्युनाविष्टो ध्रुवं वक्ष्यत्यसंशयम् || 009c
इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः | 010a
भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ || 010c
अजातशत्रुरप्यद्य भीमार्जुनवशानुगः | 011a
निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः || 011c
विराटद्रुपदौ चैव कृतवैरौ मया सह | 012a
तौ च सेनाप्रणेतारौ वासुदेववशानुगौ || 012c
भविता विग्रहः सोऽयं तुमुलो लोमहर्षणः | 013a
तस्मात्साङ्ग्रामिकं सर्वं कारयध्वमतन्द्रिताः || 013c
शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः | 014a
सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः || 014c
आसन्नजलकाष्ठानि शतशोऽथ सहस्रशः | 015a
अच्छेद्याहारमार्गाणि रत्नोच्चयचितानि च | 015c
विविधायुधपूर्णानि पताकाध्वजवन्ति च || 015e
समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः | 016a
प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् || 016c
ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा | 017a
हृष्टरूपा महात्मानो विनाशाय महीक्षिताम् || 017c
ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् | 018a
आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः || 018c
बाहून्परिघसङ्काशान्संस्पृशन्तः शनैः शनैः | 019a
काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान् || 019c
उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः | 020a
अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः || 020c
ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः | 021a
सज्जयन्ति स्म नागांश्च नागशिक्षासु निष्ठिताः || 021c
अथ वर्माणि चित्राणि काञ्चनानि बहूनि च | 022a
विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः || 022c
पदातयश्च पुरुषाः शस्त्राणि विविधानि च | 023a
उपजह्रुः शरीरेषु हेमचित्राण्यनेकशः || 023c
तदुत्सव इवोदग्रं सम्प्रहृष्टनरावृतम् | 024a
नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् || 024c
जनौघसलिलावर्तो रथनागाश्वमीनवान् | 025a
शङ्खदुन्दुभिनिर्घोषः कोशसञ्चयरत्नवान् || 025c
चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् | 026a
प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः || 026c
योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः | 027a
अदृश्यत तदा राजंश्चन्द्रोदय इवार्णवः || 027c