वैशम्पायन उवाच || 001
जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः | 001a
भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह || 001c
श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि | 002a
केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम् || 002c
तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः | 003a
अक्षौहिण्यस्तु सप्तैताः समेता विजयाय वै || 003c
तासां मे पतयः सप्त विख्यातास्तान्निबोधत | 004a
द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ || 004c
सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् | 005a
एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः || 005c
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः | 006a
ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः | 006c
इष्वस्त्रकुशलाश्चैव तथा सर्वास्त्रयोधिनः || 006e
सप्तानामपि यो नेता सेनानां प्रविभागवित् | 007a
यः सहेत रणे भीष्मं शरार्चिःपावकोपमम् || 007c
त्वं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन | 008a
स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः || 008c
सहदेव उवाच || 009
संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः | 009a
यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे || 009c
मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः | 010a
प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान् || 010c
वैशम्पायन उवाच || 011
तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः | 011a
नकुलोऽनन्तरं तस्मादिदं वचनमाददे || 011c
वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च | 012a
ह्रीमान्कुलान्वितः श्रीमान्सर्वशास्त्रविशारदः || 012c
वेद चास्त्रं भरद्वाजाद्दुर्धर्षः सत्यसङ्गरः | 013a
यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् || 013c
श्लाघ्यः पार्थिवसङ्घस्य प्रमुखे वाहिनीपतिः | 014a
पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः || 014c
यस्तताप तपो घोरं सदारः पृथिवीपतिः | 015a
रोषाद्द्रोणविनाशाय वीरः समितिशोभनः || 015c
पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः | 016a
श्वशुरो द्रुपदोऽस्माकं सेनामग्रे प्रकर्षतु || 016c
स द्रोणभीष्मावायान्तौ सहेदिति मतिर्मम | 017a
स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः || 017c
माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः | 018a
वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः || 018c
योऽयं तपःप्रभावेन ॠषिसन्तोषणेन च | 019a
दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाबलः || 019c
धनुष्मान्कवची खड्गी रथमारुह्य दंशितः | 020a
दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः || 020c
गर्जन्निव महामेघो रथघोषेण वीर्यवान् | 021a
सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः || 021c
सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः | 022a
सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः || 022c
सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः | 023a
सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः || 023c
अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः | 024a
जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः || 024c
धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान् | 025a
वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव|| 025c
यमदूतसमान्वेगे निपाते पावकोपमान् | 026a
रामेणाजौ विषहितान्वज्रनिष्पेषदारुणान् || 026c
पुरुषं तं न पश्यामि यः सहेत महाव्रतम् | 027a
धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः || 027c
क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम | 028a
अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः || 028c
भीम उवाच || 029
वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः | 029a
वदन्ति सिद्धा राजेन्द्र ॠषयश्च समागताः || 029c
यस्य सङ्ग्राममध्येषु दिव्यमस्त्रं विकुर्वतः | 030a
रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः || 030c
न तं युद्धेषु पश्यामि यो विभिन्द्याच्छिखण्डिनम् | 031a
शस्त्रेण समरे राजन्सन्नद्धं स्यन्दने स्थितम् || 031c
द्वैरथे विषहेन्नान्यो भीष्मं राजन्महाव्रतम् | 032a
शिखण्डिनमृते वीरं स मे सेनापतिर्मतः || 032c
युधिष्ठिर उवाच || 033
सर्वस्य जगतस्तात सारासारं बलाबलम् | 033a
सर्वं जानाति धर्मात्मा गतमेष्यच्च केशवः || 033c
यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः | 034a
कृतास्त्रो ह्यकृतास्त्रो वा वृद्धो वा यदि वा युवा || 034c
एष नो विजये मूलमेष तात विपर्यये | 035a
अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे || 035c
एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता | 036a
यमाह कृष्णो दाशार्हः स नः सेनापतिः क्षमः | 036c
ब्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते || 036e
ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम् | 037a
रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् || 037c
अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः || 037e
वैशम्पायन उवाच || 038
तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः | 038a
अब्रवीत्पुण्डरीकाक्षो धनञ्जयमवेक्ष्य ह || 038c
ममाप्येते महाराज भवद्भिर्य उदाहृताः | 039a
नेतारस्तव सेनायाः शूरा विक्रान्तयोधिनः | 039c
सर्व एते समर्था हि तव शत्रून्प्रमर्दितुम् || 039e
इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे | 040a
किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम् || 040c
मयापि हि महाबाहो त्वत्प्रियार्थमरिन्दम | 041a
कृतो यत्नो महांस्तत्र शमः स्यादिति भारत | 041c
धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् || 041e
कृतार्थं मन्यते बालः सोऽऽत्मानमविचक्षणः | 042a
धार्तराष्ट्रो बलस्थं च मन्यतेऽऽत्मानमातुरः || 042c
युज्यतां वाहिनी साधु वधसाध्या हि ते मताः | 043a
न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जयम् || 043c
भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ | 044a
युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम् || 044c
अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि | 045a
अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्दृढविक्रमान् || 045c
सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम् | 046a
धार्तराष्ट्रबलं सङ्ख्ये वधिष्यति न संशयः || 046c
एवमुक्ते तु कृष्णेन सम्प्रहृष्यन्नरोत्तमाः | 047a
तेषां प्रहृष्टमनसां नादः समभवन्महान् || 047c
योग इत्यथ सैन्यानां त्वरतां सम्प्रधावताम् | 048a
हयवारणशब्दश्च नेमिघोषश्च सर्वशः | 048c
शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत् || 048e
प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः | 049a
गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी || 049c
अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ | 050a
सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः | 050c
प्रभद्रकाश्च पाञ्चाला भीमसेनमुखा ययुः || 050e
ततः शब्दः समभवत्समुद्रस्येव पर्वणि | 051a
हृष्टानां सम्प्रयातानां घोषो दिवमिवास्पृशत् || 051c
प्रहृष्टा दंशिता योधाः परानीकविदारणाः | 052a
तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः || 052c
शकटापणवेशाश्च यानयुग्यं च सर्वशः | 053a
कोशयन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः || 053c
फल्गु यच्च बलं किञ्चित्तथैव कृशदुर्बलम् | 054a
तत्सङ्गृह्य ययौ राजा ये चापि परिचारकाः || 054c
उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी | 055a
सह स्त्रीभिर्निववृते दासीदाससमावृता || 055c
कृत्वा मूलप्रतीकारान्गुल्मैः स्थावरजङ्गमैः | 056a
स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः || 056c
ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः | 057a
स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः || 057c
केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः | 058a
श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः || 058c
हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलङ्कृताः | 059a
राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम् || 059c
जघनार्धे विराटश्च यज्ञसेनश्च सोमकिः | 060a
सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः || 060c
रथायुतानि चत्वारि हयाः पञ्चगुणास्ततः | 061a
पत्तिसैन्यं दशगुणं सादिनामयुतानि षट् || 061c
अनाधृष्टिश्चेकितानश्चेदिराजोऽथ सात्यकिः | 062a
परिवार्य ययुः सर्वे वासुदेवधनञ्जयौ || 062c
आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः | 063a
पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव || 063c
तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिन्दमाः | 064a
तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ || 064c
पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः | 065a
निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः || 065c
शङ्खदुन्दुभिसंसृष्टः सिंहनादस्तरस्विनाम् | 066a
पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् || 066c
ततो देशे समे स्निग्धे प्रभूतयवसेन्धने | 067a
निवेशयामास तदा सेनां राजा युधिष्ठिरः || 067c
परिहृत्य श्मशानानि देवतायतनानि च | 068a
आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च || 068c
मधुरानूषरे देशे शिवे पुण्ये महीपतिः | 069a
निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः || 069c
ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः | 070a
प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः || 070c
विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् | 071a
पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः || 071c
शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः | 072a
सात्यकिश्च रथोदारो युयुधानः प्रतापवान् || 072c
आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् | 073a
सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् || 073c
खानयामास परिखां केशवस्तत्र भारत | 074a
गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् || 074c
विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् | 075a
तद्विधानि नरेन्द्राणां कारयामास केशवः || 075c
प्रभूतजलकाष्ठानि दुराधर्षतराणि च | 076a
भक्ष्यभोज्योपपन्नानि शतशोऽथ सहस्रशः || 076c
शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् | 077a
विमानानीव राजेन्द्र निविष्टानि महीतले || 077c
तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः | 078a
सर्वोपकरणैर्युक्ता वैद्याश्च सुविशारदाः || 078c
ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः | 079a
ससर्ज रसपांसूनां राशयः पर्वतोपमाः || 079c
बहूदकं सुयवसं तुषाङ्गारसमन्वितम् | 080a
शिबिरे शिबिरे राजा सञ्चकार युधिष्ठिरः || 080c
महायन्त्राणि नाराचास्तोमरर्ष्टिपरश्वधाः | 081a
धनूंषि कवचादीनि हृद्यभूवन्नृणां तदा || 081c
गजाः कङ्कटसन्नाहा लोहवर्मोत्तरच्छदाः | 082a
अदृश्यंस्तत्र गिर्याभाः सहस्रशतयोधिनः || 082c
निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत | 083a
अभिसस्रुर्यथोद्देशं सबलाः सहवाहनाः || 083c
चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः | 084a
जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः || 084c