वासुदेव उवाच || 001
एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च | 001a
गान्धार्या धृतराष्ट्रेण न च मन्दोऽन्वबुध्यत || 001c
अवधूयोत्थितः क्रुद्धो रोषात्संरक्तलोचनः | 002a
अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः || 002c
अज्ञापयच्च राज्ञस्तान्पार्थिवान्दुष्टचेतसः | 003a
प्रयाध्वं वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः || 003c
ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः | 004a
भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः || 004c
अक्षौहिण्यो दशैका च पार्थिवानां समागताः | 005a
तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत | 005c
यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशां पते || 005e
उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च | 006a
गान्धार्या धृतराष्ट्रेण समक्षं मम भारत | 006c
एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि || 006e
साम आदौ प्रयुक्तं मे राजन्सौभ्रात्रमिच्छता | 007a
अभेदात्कुरुवंशस्य प्रजानां च विवृद्धये || 007c
पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते | 008a
कर्मानुकीर्तनं चैव देवमानुषसंहितम् || 008c
यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः | 009a
तदा मया समानीय भेदिताः सर्वपार्थिवाः || 009c
अद्भुतानि च घोराणि दारुणानि च भारत | 010a
अमानुषाणि कर्माणि दर्शितानि च मे विभो || 010c
भर्त्सयित्वा तु राज्ञस्तांस्तृणीकृत्य सुयोधनम् | 011a
राधेयं भीषयित्वा च सौबलं च पुनः पुनः || 011c
न्यूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनः | 012a
भेदयित्वा नृपान्सर्वान्वाग्भिर्मन्त्रेण चासकृत् || 012c
पुनः सामाभिसंयुक्तं सम्प्रदानमथाब्रुवम् | 013a
अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च || 013c
ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च | 014a
तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः || 014c
प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च | 015a
यथाह राजा गाङ्गेयो विदुरश्च तथास्तु तत् || 015c
सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जय | 016a
अवश्यं भरणीया हि पितुस्ते राजसत्तम || 016c
एवमुक्तस्तु दुष्टात्मा नैव भावं व्यमुञ्चत | 017a
दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा || 017c
निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः | 018a
एतत्ते कथितं सर्वं यद्वृत्तं कुरुसंसदि || 018c
न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव | 019a
विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः || 019c