वासुदेव उवाच || 001
एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः | 001a
दुर्योधनमुवाचेदं नृपमध्ये जनाधिप || 001c
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक | 002a
तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम् || 002c
सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः | 003a
सोमाद्बभूव षष्ठो वै ययातिर्नहुषात्मजः || 003c
तस्य पुत्रा बभूवुश्च पञ्च राजर्षिसत्तमाः | 004a
तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः || 004c
पूरुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः | 005a
शर्मिष्ठायाः सम्प्रसूतो दुहितुर्वृषपर्वणः || 005c
यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत् | 006a
दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः || 006c
यादवानां कुलकरो बलवान्वीर्यसम्मतः | 007a
अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः || 007c
न चातिष्ठत्पितुः शास्त्रे बलदर्पविमोहितः | 008a
अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः || 008c
पृथिव्यां चतुरन्तायां यदुरेवाभवद्बली | 009a
वशे कृत्वा स नृपतीनवसन्नागसाह्वये || 009c
तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः | 010a
शशाप पुत्रं गान्धारे राज्याच्च व्यपरोपयत् || 010c
य चैनमन्ववर्तन्त भ्रातरो बलदर्पितम् | 011a
शशाप तानपि क्रुद्धो ययातिस्तनयानथ || 011c
यवीयांसं ततः पूरुं पुत्रं स्ववशवर्तिनम् | 012a
राज्ये निवेशयामास विधेयं नृपसत्तमः || 012c
एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते | 013a
यवीयांसोऽभिजायन्ते राज्यं वृद्धोपसेवया || 013c
तथैव सर्वधर्मज्ञः पितुर्मम पितामहः | 014a
प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः || 014c
तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः | 015a
त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः || 015c
देवापिरभवज्ज्येष्ठो बाह्लीकस्तदनन्तरम् | 016a
तृतीयः शन्तनुस्तात धृतिमान्मे पितामहः || 016c
देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः | 017a
धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः || 017c
पौरजानपदानां च सम्मतः साधुसत्कृतः | 018a
सर्वेषां बालवृद्धानां देवापिर्हृदयङ्गमः || 018c
प्राज्ञश्च सत्यसन्धश्च सर्वभूतहिते रतः | 019a
वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च || 019c
बाह्लीकस्य प्रियो भ्राता शन्तनोश्च महात्मनः | 020a
सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् || 020c
अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः | 021a
सम्भारानभिषेकार्थं कारयामास शास्त्रतः | 021c
मङ्गलानि च सर्वाणि कारयामास चाभिभूः || 021e
तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह | 022a
सर्वे निवारयामासुर्देवापेरभिषेचनम् || 022c
स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम् | 023a
अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम् || 023c
एवं वदान्यो धर्मज्ञः सत्यसन्धश्च सोऽभवत् | 024a
प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः || 024c
हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः | 025a
इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः || 025c
ततः प्रव्यथितात्मासौ पुत्रशोकसमन्वितः | 026a
ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम् || 026c
बाह्लीको मातुलकुले त्यक्त्वा राज्यं व्यवस्थितः | 027a
पितृभ्रातॄन्परित्यज्य प्राप्तवान्पुरमृद्धिमत् || 027c
बाह्लीकेन त्वनुज्ञातः शन्तनुर्लोकविश्रुतः | 028a
पितर्युपरते राजन्राजा राज्यमकारयत् || 028c
तथैवाहं मतिमता परिचिन्त्येह पाण्डुना | 029a
ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत || 029c
पाण्डुस्तु राज्यं सम्प्राप्तः कनीयानपि सन्नृपः | 030a
विनाशे तस्य पुत्राणामिदं राज्यमरिन्दम | 030c
मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि || 030e
युधिष्ठिरो राजपुत्रो महात्मा न्यायागतं राज्यमिदं च तस्य | 031a
स कौरवस्यास्य जनस्य भर्ता प्रशासिता चैव महानुभावः || 031c
स सत्यसन्धः सतताप्रमत्तः शास्त्रे स्थितो बन्धुजनस्य साधुः | 032a
प्रियः प्रजानां सुहृदानुकम्पी जितेन्द्रियः साधुजनस्य भर्ता || 032c
क्षमा तितिक्षा दम आर्जवं च सत्यव्रतत्वं श्रुतमप्रमादः | 033a
भूतानुकम्पा ह्यनुशासनं च युधिष्ठिरे राजगुणाः समस्ताः || 033c
अराजपुत्रस्त्वमनार्यवृत्तो लुब्धस्तथा बन्धुषु पापबुद्धिः | 034a
क्रमागतं राज्यमिदं परेषां हर्तुं कथं शक्ष्यसि दुर्विनीतः || 034c
प्रयच्छ राज्यार्धमपेतमोहः सवाहनं त्वं सपरिच्छदं च | 035a
ततोऽवशेषं तव जीवितस्य सहानुजस्यैव भवेन्नरेन्द्र || 035c