वासुदेव उवाच || 001
भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत | 001a
मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः || 001c
प्रातीपः शन्तनुस्तात कुलस्यार्थे यथोत्थितः | 002a
तथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत् || 002c
ततः पाण्डुर्नरपतिः सत्यसन्धो जितेन्द्रियः | 003a
राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः || 003c
ज्येष्ठाय राज्यमददाद्धृतराष्ट्राय धीमते | 004a
यवीयसस्तथा क्षत्तुः कुरुवंशविवर्धनः || 004c
ततः सिंहासने राजन्स्थापयित्वैनमच्युतम् | 005a
वनं जगाम कौरव्यो भार्याभ्यां सहितोऽनघ || 005c
नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत् | 006a
प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन् || 006c
ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम् | 007a
अन्वपद्यन्त विधिवद्यथा पाण्डुं नराधिपम् || 007c
विसृज्य धृतराष्ट्राय राज्यं स विदुराय च | 008a
चचार पृथिवीं पाण्डुः सर्वां परपुरञ्जयः || 008c
कोशसञ्जनने दाने भृत्यानां चान्ववेक्षणे | 009a
भरणे चैव सर्वस्य विदुरः सत्यसङ्गरः || 009c
सन्धिविग्रहसंयुक्तो राज्ञः संवाहनक्रियाः | 010a
अवैक्षत महातेजा भीष्मः परपुरञ्जयः || 010c
सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः | 011a
अन्वास्यमानः सततं विदुरेण महात्मना || 011c
कथं तस्य कुले जातः कुलभेदं व्यवस्यसि | 012a
सम्भूय भ्रातृभिः सार्धं भुङ्क्ष्व भोगाञ्जनाधिप || 012c
ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथञ्चन | 013a
भीष्मेण दत्तमश्नामि न त्वया राजसत्तम || 013c
नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप | 014a
यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु || 014c
दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन | 015a
सममाचार्यकं तात तव तेषां च मे सदा || 015c
अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम | 016a
बहुना किं प्रलापेन यतो धर्मस्ततो जयः || 016c
एवमुक्ते महाराज द्रोणेनामिततेजसा | 017a
व्याजहार ततो वाक्यं विदुरः सत्यसङ्गरः | 017c
पितुर्वदनमन्वीक्ष्य परिवृत्य च धर्मवित् || 017e
देवव्रत निबोधेदं वचनं मम भाषतः | 018a
प्रनष्टः कौरवो वंशस्त्वयायं पुनरुद्धृतः || 018c
तन्मे विलपमानस्य वचनं समुपेक्षसे | 019a
कोऽयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः || 019c
यस्य लोभाभिभूतस्य मतिं समनुवर्तसे | 020a
अनार्यस्याकृतज्ञस्य लोभोपहतचेतसः | 020c
अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः || 020e
एते नश्यन्ति कुरवो दुर्योधनकृतेन वै | 021a
यथा ते न प्रणश्येयुर्महाराज तथा कुरु || 021c
मां चैव धृतराष्ट्रं च पूर्वमेव महाद्युते | 022a
चित्रकार इवालेख्यं कृत्वा मा स्म विनाशय | 022c
प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा || 022e
नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम् | 023a
अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते | 023c
वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह || 023e
बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम् | 024a
साध्विदं राज्यमद्यास्तु पाण्डवैरभिरक्षितम् || 024c
प्रसीद राजशार्दूल विनाशो दृश्यते महान् | 025a
पाण्डवानां कुरूणां च राज्ञां चामिततेजसाम् || 025c
विररामैवमुक्त्वा तु विदुरो दीनमानसः | 026a
प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः || 026c
ततोऽथ राज्ञः सुबलस्य पुत्री धर्मार्थयुक्तं कुलनाशभीता | 027a
दुर्योधनं पापमतिं नृशंसं राज्ञां समक्षं सुतमाह कोपात् || 027c
ये पार्थिवा राजसभां प्रविष्टा ब्रह्मर्षयो ये च सभासदोऽन्ये | 028a
शृण्वन्तु वक्ष्यामि तवापराधं पापस्य सामात्यपरिच्छदस्य || 028c
राज्यं कुरूणामनुपूर्वभोग्यं क्रमागतो नः कुलधर्म एषः | 029a
त्वं पापबुद्धेऽतिनृशंसकर्मन्राज्यं कुरूणामनयाद्विहंसि || 029c
राज्ये स्थितो धृतराष्ट्रो मनीषी तस्यानुजो विदुरो दीर्घदर्शी | 030a
एतावतिक्रम्य कथं नृपत्वं दुर्योधन प्रार्थयसेऽद्य मोहात् || 030c
राजा च क्षत्ता च महानुभावौ भीष्मे स्थिते परवन्तौ भवेताम् | 031a
अयं तु धर्मज्ञतया महात्मा न राज्यकामो नृवरो नदीजः || 031c
राज्यं तु पाण्डोरिदमप्रधृष्यं तस्याद्य पुत्राः प्रभवन्ति नान्ये | 032a
राज्यं तदेतन्निखिलं पाण्डवानां पैतामहं पुत्रपौत्रानुगामि || 032c
यद्वै ब्रूते कुरुमुख्यो महात्मा देवव्रतः सत्यसन्धो मनीषी | 033a
सर्वं तदस्माभिरहत्य धर्मं ग्राह्यं स्वधर्मं परिपालयद्भिः || 033c
अनुज्ञया चाथ महाव्रतस्य ब्रूयान्नृपो यद्विदुरस्तथैव | 034a
कार्यं भवेत्तत्सुहृद्भिर्नियुज्य धर्मं पुरस्कृत्य सुदीर्घकालम् || 034c
न्यायागतं राज्यमिदं कुरूणां युधिष्ठिरः शास्तु वै धर्मपुत्रः | 035a
प्रचोदितो धृतराष्ट्रेण राज्ञा पुरस्कृतः शान्तनवेन चैव || 035c